________________
प्रथमपारः ] अवत्रिपरिष्कारसहितायाम् । ३२३ द्विदशाः, द्वित्राः । सस्येति किम् ! गावो वा दश वा । सङ्ख्ययेति किम् ! दश वा गावो वा । सङ्ख्येय इति किम् ? द्विविंशतिर्गवाम् ॥ आसन्नाऽदूराधिकाऽध्यर्दा दिपूरणं द्वितीयाद्यन्यार्थे ॥ २० ॥ आसन्नादि अर्धपूर्वपदश्च पूरणप्रत्ययान्तं नाम सङ्ख्यानाम्नैकार्ये समासः स्यात् , द्वितीयाद्यन्तस्यान्यपदस्यार्थे सङ्ख्येये वाच्ये, स च बहुव्रीहिः। आसन्नदशाः, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः त्रयो वा द्वित्राः, वाऽर्थेऽयं बहुव्रीहिः, वार्थश्च विकल्पः संशयो वा, निर्णये सति विकल्पः, अन्यथा संशयः । संदेहविषयद्वित्वत्रित्ववन्त इति बोधः, त्रित्वेनाऽपि सन्देहविषयत्वाद्वहुवचनम् । विकस्पार्थत्वे वृत्तौ कार्ये विकल्पो बोध्यः, न तु शब्दावोघे, अतः शब्दानियमेन बहूनामुपस्थितेर्नित्यबहुवचनान्तता, अत्रापि डप्रत्ययः। द्विविंशतिर्गवामिति, अत्र सङ्ख्यार्थे विंशतिशब्दो न तु सद्ध्येये, आदशतः सङ्ख्याः सत्येये वर्तन्ते न तु सङ्ख्यायाम् , विंशत्याद्याः सङ्ख्यास्तु सद्ध्येयसङ्ख्ययोर्वर्तन्ते, यद्वा तु सद्ध्येये विंशतिशब्दस्तदा भवयेव समासः । सङ्घयेये सत्ययेत्युक्त्वा 'आदशभ्यः सङ्ख्या सद्ध्येये वर्तते न सङ्ख्याने' दशशब्दस्य प्रयोगावधिसङ्ख्या सहयेये वर्तते न सयान इत्यर्थको न्याय: सूच्यते । दशनशब्दस्य प्रयोगोऽष्टादशसध्यावधि भवति । एतन्न्यायाभावे हीयं सत्यासत्येयव. तिनी नेयमिति ज्ञानाऽसम्भवेन सङ्ख्यावृत्तिशब्दपरिहारेण सहयेय. वृत्तिसत्यया सह समासः कथं विज्ञायतेति ॥ अर्द्ध आदिर्यस्य, अर्द्धादिश्चासौ पूरणश्च, अधिकमद्ध यस्यासौ अध्यर्द्धः, आसन्नश्चादूरश्चाधिकश्चाध्यर्द्धश्वार्द्धादिपूरणश्च तत् , द्वितीयाऽऽदियस्य तद्, द्विती. यादि च तदन्यच, द्वितीयाद्यन्यस्यार्थस्तस्मिन् ॥ सङ्ख्येये सङ्ख्यया बहुव्रीहिरित्यनुवर्तन्ते । आसन्ना दश दशत्वं येषां येभ्यो वा ते, येषां येभ्य इति द्वितीयान्तादन्यं पदं सहयेयरूपम् । 'आदशभ्य' इति