________________
३२२ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य सङ्ख्या सङ्खयेये सङ्ख्यया बहुव्रीहिः ॥ १९ ॥ सुजों. वारो, वाऽर्थो विकल्पः संशयो वा, तद्वृत्तिसङ्ख्यावाचि नाम सङ्ख्येयार्थेन सङ्ख्यानाम्ना सहकार्ये समासो बहुव्रीहिश्च स्यात् । न्यार्थप्राधान्यानपुंसकत्वे लोपो भवति । समासः षोढा, बहुव्रीहिः, अव्ययीभावः, तत्पुरुषः, कर्मधारयः, द्विगुः, द्वन्द्वश्च । यद्वा समासो द्विधा, विशेषसंज्ञाविनिर्मुक्तस्तद्युतश्च, आद्य एतत्सूत्रविहितः, अपर. श्चतुर्धा-बहुव्रीह्यव्ययीभावतत्पुरुषद्वन्द्वभेदात् , कर्मधारयद्विगूच तत्पु. रुषभेदौ । वृत्तयश्च पञ्च, समासैकशेषकृत्तद्धितक्यनाद्यन्तधातुरूपाः । परार्थाभिधानं वृत्तिः, वृत्त्यर्थावबोधकं वाक्यं विग्रहः, स द्विधा लौकिकोऽलौकिकश्च, परिनिष्ठितत्वात् साधुलौकिकः, यथा राज्ञः पुरुष इत्यादि, प्रयोगाऽनोऽसाधुरलौकिकः, यथा राजन् अस् पुरुष स् इति । अविग्रहो नित्यसमासोऽस्वपदविग्रहो वा । प्रायेणाऽन्य. पदार्थप्रधानो बहुव्रीहिः, पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, उभयपदार्थप्रधानो द्वन्द्वः। अमेकपदत्वं द्वन्द्वबहुव्रीह्योरेव, कचिदेव तत्पुरुषस्य ॥ सुच्च वाश्च सुज्वौ, तयोरर्थस्तस्मिन्, सङ्ख्या सङ्ख्येये सङ्ख्यया बहूनान् वीणातीति बहुव्रीहिः । अत्र बहु. व्रीहित्वं नञ्तत्पुरुषभिन्नत्वे सति उत्तरपदलाक्षणिकपदवत्त्वम् , चित्रगुरित्यत्र गोपदं गोस्वामिनि लाक्षणिकम् , चित्रपदश्च चित्ररूपविशिष्टे गवि, चित्रपदार्थस्य गोपदार्थैकदेशे गवि-अभेदेनान्वयः, चित्राभिन्नगोस्वामीति वाक्यार्थबोधः । एवमन्यत्राप्यूह्यम् । स द्विविधः, समानाधिकरणपदघटितो व्यधिकरणपदघटितश्च, श्वेताम्बरादिः समानाधिकरणः, दण्डपाणिरित्यादिय॑धिकरणः । द्विरावृत्ता दश द्विदशाः, विंशतिरित्यर्थः, सुजथे बहुव्रीहिः, वृत्तौ तु सुजान्तर्भावेणैव एकार्थीभावाश्रयणात् सुचोऽप्रयोगः । द्वित्वसङ्ख्याविशिष्टोत्पत्तिकाऽऽवृत्तिविषया दशेति बोधः । 'प्रमाणीसझ्याइः' । द्वौ वा