Book Title: Siddha Hem Llaghu Vrutti Avchuri Parishkar
Author(s): Jitendravijay
Publisher: Ranjanvijay Jain Pustakalay

View full book text
Previous | Next

Page 396
________________ प्रथमपादः ] अवचूरिपरिष्कारसहितायाम् । ३५७ श्वानाम्न्ययम् ॥ ९९ ॥ सङ्ख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् , संज्ञातद्धितयोर्विषये, उत्तरपदे च परे समाहारे चार्थे, अयमेव चासंज्ञायां द्विगुश्च । पञ्चाम्राः । सप्तर्षयः । द्वैमातुरः, अध्यर्द्धकंसः । पञ्चगवधनः, पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम् ! अष्टौ प्रवचनमातरः । अनाम्नीति किम् ? पाञ्चर्षम् ॥ निन्द्यं कुत्सनैरपापाद्यैः ।। १०० ॥ निन्द्यवाचि निन्दाहेतुभिः पापादिवजैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । वैयाकरणखसूची, मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ? वैयाकरणन नाम अनाम तस्मिन् , अयम् ॥ संज्ञा तद्धित्तोरपद इत्यनुवर्तते । अनेकस्य कथञ्चिदेकत्वं समाहारः । पञ्च चैते आम्राश्च पञ्चाम्राः, सन्निवेशादिविशेषविशिष्टानां पञ्चानामाम्राणामियं संज्ञा । सप्त च त ऋषयश्च सप्तर्षयः । द्वयोर्मात्रोरपत्यं द्वैमातुर: 'सङ्ख्यासम्भद्रादिति तद्धितोऽप्रत्ययः । अध्यर्द्धन कंसेन क्रीतोऽध्यर्द्धकंस: 'कंसार्दादि'तीकात्ययः, क्रीतेऽर्थे ' अनाम्न्यद्विः' प्लुप् । उत्तरपदे, पञ्च गावो धनमस्य पञ्चगवधनः । पश्चानां राज्ञां समाहारः, 'राजन्सखे' इत्यत्प्रत्ययः, 'अस्य यां' अष्टौ प्रवचनमातरः, नात्र समासः । पञ्च च त ऋषयश्च पञ्चर्षयः, पश्चर्षीणामिदं पाञ्चर्षम् , 'तस्येदं' अण् । उत्तरसूत्रेषु द्विगुश्चेति नानुवर्ततेऽयंग्रहणात् ॥ निन्धं कुत्स्यते एभिरिति कुत्स. नानि तैः, पाप आद्यो येषां न पापाद्यानि तैः ।। व्याकरणं वेत्त्यधीते वा वैयाकरणः 'तद्वेत्यधीतेऽण' वैयाकरणश्चासौ खसूची च । यः शब्दं पृष्टः सन् निष्प्रतिभत्वात् खं आकाशं सूचयति स एवमुच्यते । वैयाकरणखसूचिरिति पाणिनीयाः । मीमांसकश्वासौ दुर्दुरूढश्च नास्तिक इत्यर्थः । वैयाकरणश्चौरः, प्रत्यासत्तेनिन्द्यशब्दप्रवृत्तिः निमित्तकुत्सायामयं समास इष्यते, न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते, किन्तर्हि तदाश्रयो द्रव्यम् , वैयाकरणत्वं तदुपलक्षकमात्रम् , तेनात्र विशेषण

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470