________________
प्रथमपादः ] अवरिपरिष्कारसहितायाम् । ३२५ उपदशाः ॥ एकार्थश्चानेकञ्च ॥ २२ ॥ एकमनेकञ्चैकार्थ समानाधिकरणमन्ययञ्च नाम्ना द्वितीयाघन्तान्यपदस्यार्थे समस्यते, स च सङ्ख्यापरः । योगविभाग उत्तरत्राऽनुवृत्त्यर्थः ॥ एकोऽर्थो यस्य तदे. कार्थ, च, न एकं अनेकम् , च ।। द्वितीयाचन्यार्थे बहुव्रीहिरित्यनुवर्तते । एक: . समानोऽर्थोऽधिकरणं यस्य तदेकार्थमव्ययं वा नाम्ना सह द्वितीयाद्यन्यपदस्यार्थे समस्यते । स च समासो बहुव्रीहिरित्यर्थः । ययोः पदयोर्भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थविशेष्यकप्रतीतिजनकत्वं तयोः पदयोः परस्परं सामानाधिकरण्यं भवति । उच्चैर्मुखमस्येत्युच्चैमुखः, कर्तुं कामोऽस्येति कर्तुकाम इत्यादौ व्यधिकरणत्वादव्ययस्य बहुब्रीहिन प्राप्नोतीति, चशब्देनाव्ययस्यानुकर्षः। द्वितीयेन चकारेण 'चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोतीति न्यायेनानेकसजातीयस्यैकस्य समुच्चयः। आरूढो वानरो यं स आरूढवानरो वृक्षः, कर्तरि क्तः । अत्र लौकिकविग्रहवाक्येन यत्कर्मकाऽऽरोहणकर्ता वानर इति बोधः, समासनश्च वानरकर्तृकाऽऽरोहणकर्म इति बोधः, लौकिके वाक्य आरूढस्य वानरस्य प्राधान्येऽपि वृत्तौ विशेष्यविशेषणभाव. व्यत्यासः, एवमेव शिष्टानां ततो बोधात् । ननु बहुव्रीहिसमासेनाऽन्यपदार्थस्याभिधान आरूढवानरो वृक्ष इत्याद्यनुप्रयोगाऽनुपपत्तिः, वृक्षादिईन्यपदार्थः स चाऽऽरूढवानरपदार्थेनैव गतार्थः, अभिहिते शब्दप्रयोगाभावात् , यथा चार्थे द्वन्द्वविधानाद् द्वन्द्वे च. शब्दस्य प्रयोगो न भवतीति चेन्न, वृत्तितः सामान्यस्याभिधानेऽपि विशेषानभिधानात् , यमिति सामान्येनान्यपदार्थ उक्तो न तु वृक्षमित्यादिविशेषरूपेण । ततश्च विशेषजिज्ञासायामवश्यं विशेषोऽनुप्रयोक्तव्यः, यथाऽऽरूढवानरः क इति जिज्ञासायां वृक्ष इति । सूक्ष्मा जटा येषान्ते सूक्ष्मजटाः, 'परतः स्त्री पुंवदिति हूस्वः, सुशोभनाः सूक्ष्मजटाः केशा यस्य स सुक्ष्मजटकेशः, अनेकमित्यस्योदाहरणमिदम् ।