SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२६ सिद्धहेमलघुवृत्तौ [ तृतीयाध्यायस्य बहुव्रीहिः । आरूढवानरो वृक्षः, सुसूक्ष्मजटकेशः, उच्चैर्मुखः ॥ उष्ट्रमुखादयः ॥ २३ ॥ एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः, वृषस्कन्धः ॥ सहस्तेन || २४ ॥ तेनेति तृतीयान्तेन सहोऽन्यपदार्थे समस्यते, स च बहुव्रीहिः । सपुत्र आगतः, उच्चैर्मुखमस्येति, उच्चैः शब्दस्याधिकरणप्रधानत्वाद्वैयधिकरण्यम् । बहुव्रीहिर्विधा, तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च, लम्बकर्णमानयेत्यादावाद्यः, चित्रगुमानयेत्यादावन्त्यः । विशेषणोपलक्षणाभ्यां तद्गुणातद्गुणत्वे बोध्ये यथा चित्रगुरिति, अन्यपदार्थस्य यदा कार्यान्वयि. त्वविवक्षायां गोस्वामित्वसद्भावस्तदा तद्गुणसंविज्ञानो बहुव्रीहिः, यदा तु तदानी गोस्वामित्वाभावेऽपि चित्रगुशब्दप्रयोगस्तदाऽतद्गुणसंविज्ञानो बहुव्रीहिरित्यपि केचित् । बहुव्रीहिणा यं येन यस्म इत्यादि. रूपेण कर्तृत्वकर्मत्वादीनामभिधानात्समासे न द्वितीयादिविभक्तयः किन्तु प्रथमैव । न च चित्रगोर्देवदत्तस्येत्यादि प्रयोगो न स्याद् बाह्यार्थापेक्षयैव तत्र षष्ठीविभक्तेर्भावात् , देवदत्तस्य गोभिः सह यो हि सम्बन्धः स एव समासेऽन्तर्भूतो न तु देवदत्तसम्बन्धिगृहादेः । द्वितीयाद्यन्यार्थ इत्यत्राऽर्थग्रहणाभावेऽपि शब्दे कार्यासम्भवादर्थे लब्धे. ऽपि यदर्थग्रहणं कृतं तदन्यपदार्थस्य या लिङ्गसङ्ख्याविभक्तयस्ता यथा स्युरित्येवमर्थम् ।। उष्ट्रमुख आदिर्येषान्त उष्टमुखादयः, उष्ट्रमुखमिव मुखमस्येति, अनेन सूत्रेण मुखशब्दस्य लोपः । एवं वृषस्कन्धः । उपमेयसरूपस्य चोपमानपदस्य यथासम्भवं लोपः ॥ सहः प्रथमा, तेन ॥ सहशब्दस्तुल्ययोगे विद्यमानतायाश्च वर्तते । पुत्रेण सह सपुत्रः, 'सहार्थे ' इति तृतीया, 'सहस्य सोऽन्यार्थे' इति वा सभावः, पक्षे सहपुत्र आगतः, पितेति शेषः। अत्र पितापुत्रयोरागमनकियया तुल्यया योगः सम्बन्धो विज्ञेयः । सह कर्मणा वर्तत इति सकर्मकः 'शेषाद्वा' इति कच्प्रत्ययः, विद्यमानताऽत्र सहार्थो न
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy