Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
सर्वदर्शनसंग्रहे
नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति चेत्तदयुक्तम् । विकल्पांसहत्वात् । तथाहि - वर्तमानार्थक्रिया करणका लेडतीतानागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति नो वा आये तयोरनिराकरणप्रसङ्गः । समर्थस्य क्षेपायोगात् । यद्यदा यत्करणसमर्थ तत्तदा तत्करोत्येव यथा सामग्री स्वकार्थं समर्थश्चायं भाव इति प्रसङ्गानुमानाश्च । द्वितीय कदापि न कुर्यात् । सामर्थ्य मात्रानुबन्धित्वादर्थक्रियाकारित्वस्य । यद्यदा यन्न करोति तत्तदा तत्रासमर्थं यथाहि शिलाशकलमङ्कुरे । न चैष वर्तमानार्थक्रियाकरणकाले वृत्तवर्तिष्यमाणे अर्थक्रिये करोतीति तद्विपर्ययाच्च । ननु क्रमवत्सहकारिलाभरस्थायिनोऽतीतानागतयोः क्रमेण करणमुपपद्यत इति चेत्तत्रेदं भवान्पृष्टो व्याचष्टाम् | सहकारिणः किं भावस्योपकुर्वन्ति न वा । न चेन्नापेक्षणीयास्ते । अकिंचित्कुर्वतां तेषां तदर्थ्यायोगात् । अथ भावस्तैः सहकारिभिः सहैव कार्य करोतीति स्वभाव इति चेत् । अङ्ग तर्हि सहकारिणो न जह्यात् । प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं कार्यं कुर्यात् । स्वभावस्यानपायात् । उपकारकत्वपक्षे सोऽयमुपकारैः किं भावाद्भिद्यते न वा । भेदक्ष आगन्तुकस्थैव तस्य कारणत्वं स्यान्न भावस्याक्षणिकस्य । आगन्तुकातिशयान्वयव्यति रेकानुविधायित्वात्कार्यस्य । तदुक्तम्-
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमवेत्सोऽनित्यः खतुल्यवेदसत्फलः ॥ इति ।
१४
किंच सहकारिजन्योऽतिशयः किमतिशयान्तरमारंभते न वा । उभयथाऽपि मागुक्तदूपणपाषाणवर्षणप्रसङ्गः । अतिशयन्तिरारम्भपक्षे बहुमुखा नवस्थादौ:स्थ्यमपि स्यात् । अतिशये जनयितव्ये सहकार्यन्तरापेक्षायां तत्परम्परापात इत्येकाऽनवस्थाssस्थेया । तथा सहकारिभिः सलिलपवनादिभिः पदार्थसा *राधीयमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम् । अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् । बीजं चातिशयमादधानं सहकारिसापेक्षमेवाऽऽधत्ते । अन्यथा
१ च. ल्पानुपपत्तेः । त' । २ क. ख. तदा करों । ३ च भवति इ° । ४ च. येऽपि क° 4 ५ क. 'तन्न स । ख. तत्र न स । ग. 'तदा न तत्सम' । ६ क. ख. ग. च. 'भात्क्रमेण क्रमणमु' । ७ क. ख. ग. तादात्म्यायो । ८ च. 'क्षे योऽय । ९ च रः स किं । १० क. 'रभेत न । ११ च. 'प्र' । १२ ख. न्तरं भवत्पक्षे | १३ च . ० हुदुःखा' । १४ च. 'तिज' । १५ क. दिप° ।
Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220