Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 138
________________ सर्वदर्शनसंग्रहेसत्यस्वरूपमपि हरिणोक्तं संबन्धसमुद्देशे-- यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । . तस्यैवार्थस्य सत्यत्वमाहस्त्रय्यन्तवेदिनः ॥ इति । द्रव्यसमुद्देशेऽपि विकारापगमे सत्यं सुवर्ण कुण्डले यथा । विकारापगमो यत्र तामाहुः प्रकृति पराम् ॥ इति । अभ्युपगंताद्वितीयत्वनिर्वाहाय वाच्यवाचकयोरविभागः प्रदर्शित: वाच्या सा सर्वशब्दानां शब्दाच न पृथक्ततः। . अपृथक्त्वेऽपि संबन्धस्तयोर्जीवात्मनोरिव ॥ इति । तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्याविद्यामात्रैकल्पितत्वेन प्रतिनियताकारोपधीयमानरूपभेदं ब्रह्मतत्त्वं सर्वशब्दविषयः । अभेदे च पारमार्थिक संवृतिवशाद्वयवहारदशायां स्वप्नावस्थावदुच्चावचः प्रपञ्चो विवर्तत इति कारिकार्थः । तदाहुर्वेदान्तवादनिपुणाः यथा स्वमप्रपश्चोऽयं माय मायाविजृम्भितः । एवं जाग्रत्मपश्चोऽपि मयि मायाविजृम्भितः ॥ इति । तदित्यं कूटस्थे परस्मिन्ब्रह्मणि सच्चिदानन्दरूपे प्रत्यगभिन्नेऽवगतेऽनाधविद्यानिवृत्तौ ताहूँग्ब्रह्मात्मनाऽवस्थानलक्षणं निःश्रेयसं सेत्स्यति । शब्दब्रह्मगि निष्णातः परं ब्रह्माधिगच्छति । इत्यभियुक्तोक्तेः । तथा च शब्दानुशासनशास्त्रस्य निःश्रेयससाधनत्वं सिद्धम् । तदुक्तम् तवारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविद्यं प्रचक्षते ॥ (वाक्यप०१।१४) इति । तथा-इदमायं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षर्माणानामजिह्मा राजपद्धतिः ॥ (वाक्यप० १११६) इति । तस्माद्व्याकरणशास्त्रं परमपुरुषार्थसाधनतयाऽध्येतव्यमिति सिद्धम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पाणिनिदर्शनम् ॥ १ घ गमेऽवाऽऽहुः प्रकृतिं च प । च. गमे सत्यां ता । २ घ. गतद्वितीयत्वनिर्वाहार्थे वाचकयोविभा । ३ ख. °त्रपरिक । ४ ख. न । ५ घ. "वादिनि । ६ क. ख. "दृगब्रह्मा । ७ घ. 'नपार्व' । ८ क.-ग ङ. च. मार्गाणाम । ९ घ. राज्ययावति । १० घ. तद्वया ।

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220