Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
मधुसूदनसरस्वतीकृतीशाध्यायी कर्ममीमांसा 'अथातो धर्मजिज्ञासा' इत्यादि अन्वाहार्ये च (१६ ) दर्शनात्' इत्यन्ता भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणम् । धर्मभेदाभेदौ। शेषशेषिभावः । क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः । श्रुत्यर्थपठनादिभिः क्रम भेदः । अधिकारविशेषः सामान्यातिदेशः । विशेषातिदेशः । ऊहः । बाधः । तन्त्रम् । प्रसङ्गश्चेति क्रमेण द्वादशाध्यायानामर्थाः । तथा संकर्षणकाण्डमप्य. ध्याय चतुष्टयात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव । तथा चतुरध्यायी शारीरकमीमांसा ' अथातो ब्रह्मजिज्ञासा' इत्यादिरनावृत्तिः शब्दादित्यन्ता जीवनीका त्वसाक्षात्कारहेतुःश्रवणाख्यविचारप्रतिपादकान्यायानुपदर्शयन्ती भगवता बाद. रायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यगभिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । तत्र च प्रथमे पादे स्पष्टब्रह्मलिङ्गन्युक्तानि वाक्यानि विचारितानि । द्वितीये त्वस्पष्टलिङ्गान्युपास्यब्रह्मविषयाणि तृतीये पादेऽस्पष्टब्रह्मलिङ्गानि प्रायशो ज्ञेयबह्मविषयाणि । एवं पादत्रयेणे वाक्यविचारः समापितः । चतुर्थपादे तु प्रधानविषयत्वेन संदिद्यमानान्यव्यक्ताजादिपदानि चिन्तितानि । एवं वेदान्तानामये ब्रह्मणि समन्वये सिद्ध तत्र संभावितस्मृतितर्कादिप्रयुक्तस्तकविरोधमाशङ्कन्ध तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राऽऽद्यपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तश्च विरोधो वेदा: न्तसमन्वयस्य परिहतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपादितम् । स्वपक्षस्थापनपरपक्षनिवारणरूपपर्वद्वयात्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेण परिहृतः । उत्तरभागेण तु जीवविषयाणाम् । चतुर्थपादे विन्द्रियविषयश्रुतीनां विरोधः परिहंतः। तृतीयेऽध्याये साधननिरूपणम् । तत्र प्रथमे पादे जीवस्य परलोकगमनागमननिरूपणेन वैराग्यं निरूपितम् । द्वितीये पादे पूर्वभागेण पदार्थः शोधितः । उत्तरभागेण तत्पदार्थः । तृतीये पादे निर्गुणे ब्रह्मणि नानाशाखापठितपुनरुक्तपदोपसंहारः कृतः । प्रसङ्गाच्च सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोपसंहीरानुपसंहारौ निरूपितो । चतुर्थे पादे निर्गुणब्रह्मविद्याया बहिरङ्ग साधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमनिदिध्यासनादीनि च निरूपितानि । चतुर्थेऽध्याये सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमे पादे
१ ग. 'हार्य च । २ ख. दिना । ३ ख. लिङ्गायु। ४ ख. 'टब्रह्मलि। ५ ख. 'ण वि। ६ ग. 'ह्य सामान्य । ७ ख. कैंश्च विरोधो । ८ ग. °त्मकाद्वि' । ९ ख. रोधपरिहारः । तृ' । १० ग. हारौ।
Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220