Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 202
________________ मधुसूदनसरस्वतीकृतीरथगजतुरुगारूढाः । दीक्षाभिषकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमे पादे निरूपितम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणमकारो दर्शितो द्वितीयपादे । गुरुसंप्रदायसिद्धानी शस्त्रविशेषाणां पुनः पुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषणां प्रयोगश्चतुर्थपादे निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धम् । दुष्टस्य दण्डचोरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्रजापत्यादिक्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् । । एवं गान्धर्ववेदो भगवता भरनेन प्रणीतः स गीतवाद्यनृत्यभेदेन बहुविधः। देवताराधनं निर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् । ' एवमर्थशास्त्रमपि बहुविधम् । नीतिशास्त्रमश्वशास्त्रं शिल्पशास्त्रं सूपशास्त्रं चतुःषष्ठिकलाशास्त्रं चेति । तत्स नानामुनिभिः प्रणीतम् । अस्य च सर्वस्य लौकिकवत्प्रयोजनभेदो द्रष्टव्यः । · · एवमष्टादश विद्यास्त्रयाशब्देनोक्ताः । अन्यथा न्यूनताप्रसङ्गात् । तथा सांख्यशास्त्रं भगवता कपिलेन प्रणीतम्। तच्च 'अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः' इत्यादि षडध्यायम् । तत्र प्रथमेऽध्याये विषया निरूपिताः । द्वितीयेऽध्याये प्रधानकार्याणि । तृतीयेऽध्याये विषयेभ्यो वैराग्यम् । चतुर्थेऽ. ध्याये विरक्तानां पिङ्गलाकुरवादीनामाख्यायिकाः। पञ्चमेऽध्याये परपक्षनिर्णयः। षष्ठेऽध्याये सर्वार्थसंक्षेपः । प्रकृतिपुरुषविवेकज्ञानं सांख्यशास्त्रस्य प्रयोजनम् । तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम् । अथ योगानुशासनमि. त्यादि पादचतुष्टयात्मकम् । तत्र प्रथमे पादे चित्तवृत्तिनिरोधात्मकः समाधिरभ्यासवैराग्यरूपं च तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्धयर्थं यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधय इत्यष्टाङ्गानि निरूपितानि । तृतीये पादे योगिविभूतयः । चतुर्थे पादे कैवल्यमिति । तस्य च विजातीयप्रत्ययनिरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् । , तथा पशुपतिमतं पाशुपतं शास्त्रं पशुपतिना पशुपाशविमोक्षणाय 'अथातः पाशुपतं योगविधि व्याख्यास्यामः' इत्यादि पश्चाध्यायं विरचितम् । तत्राध्या यपञ्चकेनापि कार्यरूपो जीवः । पशुः कारणं पतिरीश्वरः । योगः पशुपती चित्तसमाधानम् । विधिर्भस्मना त्रिषवणस्नानादिश्च निरूपितः । दुःखान्तसंज्ञो १ ख. निरूपणम् । २ ख. 'नां शास्त्र । ग. °नां पु । ३ ग. °णं दु । ४ ख. ग. 'टदस्यु. चोरा । ५ ख. °वं गन्ध । ६ ख. यीविद्याश° । ७ ख. ग. °ररादी । ८ ख. त्तनिवृ । ९ ख. योगविकृत । १० ख, स्त्रं भगवता प । ११ ख. केन का। १२ ख. वः का । १३ ख. पोगप। १४ ग, °न्तरसं।

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220