Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
प्रस्थानभेदः। मोक्षश्च प्रयोजनम् । एत एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते ।
एवं वैष्णवं नारदादिभिः कृतं पश्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भगवान्वासुदेवः सर्वकारणं परमेश्वरः । तस्मादुत्पद्यते संकर्षणाख्यो जीवः । तस्मान्मनः प्रद्यन्नः। तस्मादनिरुद्धोऽहंकारः। सर्वे चैते भगवतो वासुदेवस्यैवांशभूताः । तदभिन्ना एवेति भगवतो वासुदे. वस्य मनोवाकायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भवतीत्यादि च निरूपितम् ।
तदेवं दर्शितः प्रस्थानभेदः । सर्वेषां च संक्षेपेण त्रिविध एव प्रस्थानभेदः । तत्राऽऽरम्भवाद एकः । परिणामवादो द्वितीयः । विवर्तवादस्तृतीयः । पार्थिवाप्यतैजसवायवीयाश्चतुर्विधाः परमाणको ब्यणुकादिक्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते । असदेव कार्य कारकव्यापारादुत्पद्यत इति प्रथमस्तार्किकाणां, मीमांसकानां च सत्त्वरजस्तमोगुणात्मकं प्रधानमेव महदहंकारादिक्रमेण जग. दाकारेण परिणमते । पूर्वमपि सूक्ष्मरूपेण सदेव कार्य कारणव्यापारेणाभिव्यज्यत इति द्वितीयः पक्षः सांख्ययोगपातञ्जलपाशुपतानाम् । ब्रह्मणः परिणामो जगदिति वैष्णवानाम् । स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्पत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां प्रस्थानकर्तृणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वर एव प्रतिपाद्ये तात्पर्यम् । न हि ते मुनयो भ्रान्ताः सर्वज्ञत्वात्तेषाम् । किंतु बहिर्विषयप्राणानामापाततः पुरुषार्थे प्रवेशो न संभवतीति नास्तिक्यवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्यमबुद्धवा वेदविरुद्धेऽप्यर्थे तात्पर्यमुत्प्रेक्ष्यमाणास्तन्मतमेवोपादेयत्वेन गृह्णन्तो जना नानापथजुषो भवन्तीति सर्वमनवयम् ।
इति श्रीमधुसूदनसरस्वतीविरचितः प्रस्थानभेदः॥
१ ख. पाश्चरात्रम् । २ ग. °णामी ज । ३ ख °म् । मायावच्छिन्नब्रह्मपरिणामो जगदिति शाकानां स्व । ४ ख. थें तेषां ता ।
Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220