Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
मधुसूदनसरस्वतीकृतौ___ सत्र सर्ववेदसाधारणी शिक्षा । अथ शिक्षा प्रवक्ष्यामीत्यादिपश्चखण्डास्मिका पाणिमिमा प्रकाशिता । प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्यसंज्ञिताऽन्यैरेवः मुनिभिः प्रदर्शिता । एवं वैदिकपद सापुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयोजनम् । तच्च वृद्धिरादैजित्याधध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव विरचितम् । पाणिनीयसूत्रेषु कात्यायनेन मुनिना वार्तिकं विरचितम् । तद्वातिकस्योपरि च भगवता पतञ्जलिना महाभाष्यमारचि । तदेतत्रिमुनि व्याकरणं वेदाङ्ग माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गामि किंतु लौकिकमयोगमात्रज्ञानार्थीनीत्यवगन्तव्यम् ।
एवं शिक्षाब्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वे ज्ञाते वैदिकमन्त्रपदानामर्थज्ञानाकाङ्क्षायो तदर्थ भगवता यास्केन समाम्नायः समाम्नातः, स व्याख्यातव्य ईत्यादित्रयोदशाध्यायात्मकं निरुक्तमारचितम् । तत्र च नामाख्यातनिपातोपस. र्गभेदेन चतुर्विध पदजातं निरूप्य वैदिकमन्त्रपदार्थानामर्थः प्रकाशितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वात्पदार्थज्ञोनाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदार्थज्ञानाय निरुक्तमवश्यमपेक्षितम् । अन्यथाऽनुष्ठानासंभवात् । मृण्येव जरी तुर्फरी तू इत्यादिदुरूहाणां शब्दानां (निरु० १३--५) प्रकारान्तरेणार्थज्ञानस्यासंभवनीयत्वाच्च । एवं निर्घण्टवोऽपि वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूना एव । तत्रापि निघण्टुसंज्ञकः पश्चाध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः।
एवमङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दाश्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च । छन्दोज्ञानाकाङ्क्षायां तत्सकाशनाय धीः श्रीः स्त्रीमित्याद्यष्टाध्यायात्मिका छन्दोवितिर्भगवता पिङ्गलेन विर. चिता । तत्राप्यलौकिकमित्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिनिष्टुब्जगतीति सप्त च्छन्दांसि सावान्तरभेदानि निरूपितानि । अथ लौकिकमित्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गानिरूपितानि व्याकरणे लौकिकपदनिरूपणवत् ।
एवं वैदिककाङ्गन्दादिकालज्ञानाय ज्योतिषं भगवताऽऽदित्येन गर्गादिभिश्व प्रणीतं बहुविधमेवे ।
शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तामि च प्रयोगत्रयभेदात्रिविधान । तत्र हौत्रप्रयोगप्रतिपादकान्याश्वलायन
ख. हापोहादि । २ ख. °सादादेव भ । ३ ख. 'धुत्वज्ञाने वै । ४ ख. इत्यष्टाद।५ ख. झामस्य । ६ . °घण्टुरपि । ७ ख. णां पद । ८ ख. येणेति । ९ ख. व । एवं शा। १० ख.
'न सांख्यय । ग. "नसांख्याय । घ. नशांख्याय ।
Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220