Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
शांकरदर्शनम् ।
- १६७
वर्णयन्ति । सा च कालरात्रिः सरस्वतीति द्वे शक्ती उत्पाद्य ब्रह्माणं पुरुषं श्रियं च त्रियमुत्पादयामास्व । स्वयं मिथुनं जनयित्वा स्वसुते अप्याह- अहमिव युषामपि मिथुनमुत्पादयतमिति । ततः कालरात्रिर्महादेवं पुरुषं स्वरां स्त्रियं च जनयामास । सरस्वती च विष्णुं पुरुषं गौरी च स्त्रियमुदपादयत् । ततश्चाऽऽदिर्विवाहमकरोदकारयच्च ! एवं ब्रह्मणे स्वरां विष्णवे भियं शिवाय गौरी दत्त्वा शक्तियुक्तानां तेषां सृष्टिस्थितिसंहाराख्यानि कर्माणि प्रत्यपादयदिति । तदेतन्मतं श्रुत्यादिमूलप्रमाणविधुरतया स्वोत्प्रेक्षामात्र परिकल्पितमिति स्वरूपव्याक्रियैव निराक्रियेत्युपेक्षणीयम् । ततश्चानिर्वचनीयानाद्य विद्यालसितः प्रत्यगात्मनि सीमानः प्रमातृत्वादिप्रपञ्च इत्यलमतिसङ्गेन ।
ननु किमर्थं प्रमातृस्वादीनामाविद्यकत्वं निगद्यते । ब्रह्मज्ञानेन निवर्तनाय जीवस्य ब्रह्मभावाय वा । न प्रथमः । शास्त्रप्रामाण्यादेव सत्यस्यापि ज्ञानेन निवृत्तेरुपपत्तेः । उपलम्भाच्च । तथाहि
सेतुं दृष्ट्वा विमुच्येत ब्रह्महा ब्रह्महत्यया । इत्यादिना पापं सनीवस्यते । विषयदोषदर्शनेन रागो दर्दद्यते । तार्क्ष्यध्यानेन विषं शम्यते । एवं कर्तृत्वादिवन्धः पारमार्थिकोऽपि तत्त्वज्ञानेन निवर्त्यत । न चरमः | औपाधिकस्य जीवभावस्योपाधिनिवृत्या निवृत्तौ ब्रह्मभावसंभवात् । तस्माद्बन्धस्याऽऽबिद्य कत्ववाचोयुक्तिः सावद्येति चेन्नैतदनवद्यम् | सत्यस्याऽऽत्मवज्ज्ञाननिवर्त्यत्वानुपपत्तेः । बन्धस्य मिथ्यात्वमन्तरेण शास्त्रप्रामाण्या दपि तदसिद्धेश्च । शास्त्रमपि —
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः ।
इति न्यायेन लोकावलोकितां पदशक्ति पदार्थयोग्यतां चोरररीकृत्य प्रचरतीति । अपरथा, आदित्यो यूप:' ( तै० ब्रा० २।१।५ ) ' यजमानः प्रस्तरः ' ( तै० सं० १/७/४ ) इत्यादिवाक्य स्तोमस्य यथाश्रुतेऽर्थे प्रामाण्यापत्तेः । वैदिक्याः क्रियायाः समक्षक्षयितया पारत्रिक फलकरणत्वान्यथानुपपत्त्या पूर्वाङ्गीकरणानुपपत्तिश्च । लोके च शुक्तिव्यक्तिमत्त्वाभिव्यक्तावपनीयमानस्याऽऽरोपितस्य मिथ्यात्वदृष्टौ तद्दृष्टान्तावष्टम्भेनोऽऽत्मतत्व साक्षात्कारविद्यापनोद्यस्याऽऽविद्य कस्य बन्धस्य मिथ्यात्वानुमानसंभवात् । विमतं मिथ्याऽधिष्ठानतत्त्वज्ञाननिवस्वाच्छुक्तिका रूप्यवदिति । न च विमतं सत्यं भासमानत्वादिति प्रति
१ सं. 'मुपपा' । २ ख. 'पव्यतियौवनिराश्रिये । ३ ख प्रतिभासमानप्र' । ४ ख. प्रपञ्चेन । ५ ख. 'ह्मभवना' । ६ ख. दह्यते । ७ ख. स्तोम्या य० । ८ ख. 'पत्तेश्च । ९ ख. 'नाइऽत्यन्तिकत' ।
Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220