Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 187
________________ शांकरदर्शनम् । १६५ म ए॒ते । ज्ञानवति तस्मिस्तदभावात् । नाप्यनुभवाभावम् । ज्ञानोक्तस्तदनाभधायकत्वात् । नैरर्थक्यं च न युक्तमित्यनयैवानुपपत्त्या लक्षणेति चेदुक्त लक्ष. गैवाविद्या तदर्थोऽस्तु । संदेह इति चेन्न । असमत्वात्कोटिद्वयस्य । अन्यत्र हि प्रतियोगिनिवृत्तिनअर्थः । अत्र तु प्रतियोगिव्याप्यनिवृत्तिरिति । जानातिसमभिव्याहृतस्य नमः कचिदुक्तलक्षणाविद्याविषयत्वसिद्धिमन्तरेण न संदेह इत्यः वईयभावेन सैव जानातिसमभिन्याहृतस्ये नत्रः सर्वत्र तद्विषयत्वमवगमयति विलुम्पति ज्ञानाभावकोटयन्तरमिति क संदेहावकाशः । तदेवं लक्षणाहेत्वभावेऽनुभवाभावोऽप्यात्मनि न प्रत्यक्षेण गृह्यत इति परिशेषादुक्तलक्षणाऽविधवाज्ञ इति प्रतिभासस्य विषय इति स्थितम् । । अस्तु वा ज्ञानाभावप्रतिभासः । अयमभावश्च प्रतियोगी यत्र निषिध्यते न ततस्तत्त्वान्तरमन्यदधिकरणभावात् । मा भदन्यभावत्वमन्याभावत्वं तु स्यात्। नन तदपि विरुद्धम् । सत्यं सति भेदे । स च प्रमाणात्। तच्च सति प्रतियोग्या भावधिकरणतस्तत्त्वान्तरे । ननु घटवति भूतले घटाभावमितिव्यवहृती स्यातामिति चेन्मा भूतामेते प्रतियोगिना सहानुभूयमानेऽधिकरणे । प्रतियोगित स्मरणे सत्यनुभूयमानेऽधिकरणे तु स्याताम् । एवमप्युपपत्तौ न तत्त्वान्तरविषयत्वं कल्प्यम् । काऽनुपपत्तिरिति चेदाधकामावस्तावदुक्त एव । बाधकं तु कल्पनागौरवमेव । तथाहि-तत्त्वान्तरत्वं तावदेकं कल्प्यम् । तस्यापरोक्षत्वायेन्द्रियसंनिकर्षः कल्प्यः । स च संयोगादिर्न भवतीति संयुक्तविशेषणत्वादिः कल्य इत्यतो वरमुक्तलक्षणस्याधिकरणस्य व्यवहारविषयेऽङ्गीकारः । सति चैवं ज्ञानाभावेनापि प्रतियोगिस्मृती सत्यामनुभूयमानमधिकरणं ज्ञातैव । स च न केवलमन्तःकरणम् । जडत्वात् । नापि केवल आत्मैव । अपरिणामित्वा. दगुणत्वाच्च । अत उभयोरभेदाध्यासः । आत्माध्यासश्चोक्तलक्ष गाऽविद्याऽऽत्मेत्यायातमविद्यायामेवाहमज्ञ इति प्रतिमासः प्रमाणमिति । अनुमानं च-विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरण. स्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वात् । अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । वस्तुपूर्वकमित्युक्त आत्मवस्तुपूर्वकत्वेनार्थान्तरता । १ ख. "तस्तदाभा । २ ख. निवा नार्थः । ३ निवोऽनर्थ इति । ४ ख. श्यं भवति से । ५ ख. "स्य नजि त । ६ ख. देव ल । ७ ख. 'दवि । ८ ख. सत्त्वं । ९ ख. 'वात्स्वाधि। १० ख. न्तरत्वेनास्य । घ । ११ ख. °प्युत्पत्तौ नत्वान्त । १२ ख. शेषेण । १३ ख. °षयाङ्गीकारः सति ज्ञा । १४ ख. सत्वान । १५ ख. सात्माध्या । १६ ख. °ति वाऽनु । १७ ख. "देश ग।

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220