Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
॥ ॐ तत्सद्ब्रह्मणे नमः ॥ अथ मधुसूदनसरस्वतीकृतः प्रस्थानभेदः ।
अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्य साक्षात्य म्परया वेति समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते । तथाहि-ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद शति वेदाश्चत्वारः। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति बेदा. गामि षट् ! पुराणन्यायमीमांसा धर्मशास्त्राणिं चेति चत्वार्युपाङ्गानि । पत्रोपपुराणानामपि पुराणेऽन्तर्भावः । वैशेषिकशास्त्रस्य न्याये । वेदान्तशास्त्रस्य मीमांसायाम् । महाभारतरामायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रे । मिलित्वा चतुर्दश विद्याः । तथा चोक्तं याज्ञवल्क्येन (१. ३.).. पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति । एता एव चतुभिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थशास्त्रं चेति चत्वार उपवेदाः । सर्वेषां चाऽऽस्तिकानामेतावन्त्येव शास्त्रमस्थानानि । अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात् ।
ननु नास्तिकानामपि प्रस्थानान्तराणि सन्ति तान्येतेष्वनन्तर्भावात्पृथग्गण. यितुमुचितानि । तथाहि-शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्षणिकविज्ञानमात्रवादेनान्यद्योगाचाराणाम् । ज्ञानाकारानुमेय क्षणिकबाह्यार्थवादेनापरं सौ. त्रान्तिकानाम् । प्रत्यक्षसलक्षणक्षणिकबाह्यार्थवादेनापरं वैधाषिकाणाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा देहात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहोतिरिक्तदेहपरिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां षट् प्रस्थानानि तानि कस्मानोच्यन्ते । सत्यम् । वेदबाह्यत्वाषां म्लेच्छादिप्रस्थानवत्परम्परयाऽपि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमेव । इह तु साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दक्षितः । ततो न न्यूनत्वशङ्कावकाशः । अथ संक्षेपेणैषां प्रस्थामानां स्वरूपभदहेतुप्रयोजनभेद उच्यते बालानां व्युत्पत्तये । - तत्र धर्मब्रह्मपातिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च मम्मब्राह्मणात्मकः । तत्र मन्त्री अनुष्ठानकारकभूतद्रव्यदेवताप्रकाशकाः । तेऽपि त्रिविधाः ।
NAND
१ ख. °णेष्वन्त ।.२ ख. 'क्षस्वल । ३ ग. हायति । ४ ख. "रिणामात्म' । ५ क'यमे । ६ ग. °पकार । ७ ग. "भेदे हे । ८ ख. हेतुः प्र।
Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220