Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
अथ शांकरदर्शनम् ॥ १६ ॥
. .rewarसोऽयं परिणामवादः प्रामाणिकगईणमहति । न ह्यचेतनं प्रधानं चेतनानधिष्ठितं प्रवर्तते । सुवर्णादौ रुचकाधुपादाने हेमकारादिचेतनाधिष्ठानोपलम्भेन नित्यत्वसाधककृतकत्ववत्सुखदुःखमोहात्मनाऽन्वितत्वादेः साधनस्य साध्यविपर्ययव्याप्ततया विरुद्धत्वात् । स्वरूपासिद्धत्वाच्च । आन्तराः खल्लभी सुखदुः. खमोहा बाह्येभ्यश्चन्दनादिभ्यो विभिन्नप्रत्ययवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते । यद्यमी सुखादिस्वभावा भवेयुस्तदा हेमन्तेऽपि चन्दनः सुखः स्यात् । न हि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो । भवेत् । न ह्यसौ कदाचिदकुकुमपङ्क इति । एवं कण्टकः क्रमेलकस्येव मनुप्यादीनामपि प्राणभृतां सुखः स्यात् । न ह्यसौ कांश्चित्मत्येव कण्टक इति । तस्माच्चन्दनकुङ्कुमादयो विशेषाः कालविशेषाद्यपेक्षया सुखादिहेतवो न तु सुखादिस्वभावा इति रमणीयम् । तस्माद्धेतुरसिद्ध इति सिद्धम् । __नापि श्रुतिः प्रधानकारणत्ववादे प्रमाणम् । यतः- यदग्ने रोहित रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदनस्य ( छा० ६। ४ । १ ) इति छान्दोग्यशाखायां तेजोबन्नात्मिकायाः प्रकृतेर्लोहितशुक्लकृष्णरूपाणि समाम्नातानि तान्येवात्र प्रत्यभिज्ञायन्ते । तत्र श्रीतप्रत्यभि. झायाः प्राबल्यालोहितादिशब्दानां मुख्यार्थसंभवाच्च तेजोबनाँत्मिका जरायुजाण्डजस्वेदजोद्भिज्जचतुष्टयस्य भूतग्रामस्य प्रकृतिरवसीयते । यद्यपि तेजोवनानां प्रकृतेजातत्वेन योगवृत्त्या न जायत इत्यजत्वं न सिध्यति तथाऽपि रूढि. वृत्त्याऽवगतमजात्वमुक्तप्रकृतौ सुखावबोधाय प्रकल्प्यते । यथाऽसौ वाऽऽदित्यो देवमधु ( छा: ३ । १ । १) इत्यादिवाक्येनाऽऽदित्यस्य मधुत्वं परिकल्प्यते तथा तेजोबन्नात्मिका प्रकृतिरेवाजेति । अतोऽजामेकामित्यादिका श्रुतिरपि न प्रधानप्रतिपादिका।
यदवादि निदर्शनं पूर्ववादिना क्षीरादिकमचेतनं चेतननिधिष्ठितमेव वत्सविवृद्धयर्थं प्रवर्तत इति । नतद्रमणीयम् । बुद्धिविशेषशालिनः परमेश्वरस्य तत्राप्यधिष्ठातृत्वाभ्युपगमात् । न च परमेश्वरस्य करुणया प्रवृत्त्यङ्गीकारे प्रागुक्त
१ ग. °दौ कटका' । २ क. 'त्यसा । ३ ख. ग. 'दुःखादि' । ४ क. ग. विच्छिन्न । ५ ख. 'न्ते । विचन्दनः सदा विचन्दनः स्यात्तदा नि । ६ ख. ज्ञायां प्रा । ७ ख. 'नात्मकज । ८ क. तदाऽपि । ९ ख. परिकल्प्यते । १० क. दिसाक्षी । ११ °नाधि'।
Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220