Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 184
________________ १६२ सर्वदर्शनसंग्रहेनन्विदं रजतमिति ज्ञानमेकमनेकं वा । न तावदाद्यः । अपसिद्धान्तापत्तेरसंभवा । तथाहि-शुक्तीदमंशेन्द्रियसंप्रयोगादिदमाकारान्तःपरिणामरूपमेकं शानं जायते । न च तत्र कलधौतं विषयभावमाकल्पयितुमुत्सहसे । असंप्रयुक्तस्वात्तस्य । विषयत्वाङ्गीकारे सर्वज्ञत्वापत्तेः। न चै चक्षुरन्वयव्यतिरेकानुबिधायितया तज्ज्ञानस्य तज्जन्यत्वं वाच्यम् । इदमंशज्ञानोत्पत्ती तदुपक्षयोपपत्तेः । न चापि संस्काराद्रजतज्ञानस्य जन्म । स्मृतित्वापत्तेः । अथेन्द्रियदोषस्य तत्करणत्वम् । तदप्ययुक्तम् । स्वातन्त्र्येण तस्य ज्ञानहेतुत्वानुपपत्तेः । न हि ग्रहणस्मरणाभ्यामन्यः प्रकारः समस्ति । तस्मादिदमंशरजततादात्म्यविषयमेकं विज्ञानं न घटते । नाप्यनेकमख्यांतिमतापत्तेरिति चेदुच्यते प्रथमं दोषकलुषितेन चक्षुषेदतामात्रविषयान्तःकरणवृत्तिरुत्पद्यते । अनन्तरं तया वृत्त्या चैतन्यावरणाभिभवे सति तच्चैतन्यमभिव्यज्यते । पश्चादिदमंशसन्यनिष्ठाऽविद्या रागादिदोषकलुषिता कलधौताकारेण परिणमते । इदमाकारान्तःकरणपरिणामावच्छिन्नचैतन्यनिष्ठा कलधौतगोचरपरिणामसंस्कारसचिया कलधौतज्ञानाभासाकारेण परिणमते। तौ च रजतवृत्तिपरिणामौ स्वाधिष्ठानेन साक्षिचैतन्येनाव्यवधानेन भास्यते । तथा च सवृत्तिकाया अविद्यायाः साक्षिभास्यत्वाभ्युपगमे वृत्त्यन्तरवेद्यत्वाभावान्नानवस्था । यद्यप्यन्तःकरण. तिरविद्यावृत्तिश्चेति द्वे इमे ज्ञाने तथाऽपि विषयाधीनं फलम् । ज्ञातो घट इति विषयावच्छिन्नतया फलप्रतीतेः । तद्विषयश्च सत्यमिथ्याभूतयोरिदमंशरजता. शयोरन्योन्यात्मकतयैकत्वमापनः । तस्माद्विषयावच्छिन्नफलस्याप्येकत्वाज्ञानक्यापचर्यते । तदुक्तम् शुक्तीदमंशचैतन्यस्थिताऽविद्या विज़म्यते । रागादिदोषसंस्कारसचिवा रजतात्मना ॥ इदमाकारवृत्त्यक्तचेतन्यस्था तथाविधा। विवर्तते तद्रजतज्ञानाभासात्मनाऽप्यसौ ॥ सत्यमिथ्यात्मनोरक्यादेकस्तद्विषयो मतः । तदायत्तफलैकत्याज्ज्ञानक्यमुपचर्यते ।। इति । पञ्चपादिकायामपि फलैक्याज्ज्ञानक्यमुपचर्यत इत्यभिप्रायेण सा .मेव ज्ञान मेकफलं जनयतीत्युक्तम् । १ ख. °च्च शु। २ ख. रूपात्मकं । ३ ख. चक्षु । ४ ख. तदपेक्षाया उप । ५ स. ख्या. विम।

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220