Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 183
________________ शांकरदर्शनम् । किमत्र शक्यं कार्य ज्ञाप्यं वा । नाऽऽद्यः । असतः कार्यत्वानुपपत्तेः । न द्वितीयः। शक्यस्य कारणत्वेनाङ्गीकृतत्वात् । ज्ञानादन्यस्य ज्ञानस्यानुपलब्धेश्च । उपलब्धौ वा तस्यापि ज्ञाप्यत्वेन ज्ञापकान्तरापेक्षायामनवस्थापत्तेश्च । अथैतदोषपरिजिहीर्षया विज्ञानं सदरूपमेवासतः प्रकाशकमिति. कक्षी क्रियत इति चेदत्र देवानांप्रियः प्रष्टव्यः पुनः । असौ सदसतोः संबन्धो निरूप्यनिरूपकभा. वोऽविनाभावो वा । नाऽऽद्यः । असत उपकाराधारवायोगेनानुपकृततया निरूप्यत्वानुपपत्तेः । न चरमः । धूमधूमध्वजयोरिव तदुत्पत्तिलक्षणस्य शिंशपाक्षयोरिव तादात्म्यलक्षणस्य वाऽविनाभावनिदानस्य सदसतोरसंभवात । तस्माद्विज्ञानमेवासत्प्रकाशकमित्यसद्वादिनामयमसत्प्रलाप इत्यारोप्यमाणं नासत् । ननु विज्ञानवादिनयानुसारेण प्रतीयमानं रजतं ज्ञानात्मकम् । तत्र च युक्तिरभिधीयते-यद्यथाऽनुभयते तत्तथा । अन्यथात्वं तु बलवद्वाधकोपनिपातादास्थीयत इत्युभयवादिसंमतोऽर्थः । तत्र च नेदं रजतमिति निषिद्धेदभावं रजतमर्यादान्तरज्ञानरूपमवतिष्ठते । न चेदंतया निषेधे सत्यनिदंतया च, बहिरपि व्यवस्थोपपत्तेः कुतः संविदाकारतति वाच्यम् । व्यवाहतस्यापरोक्षत्वानुपपत्तावपरोक्षस्य विज्ञानस्य कक्षीकर्तव्यत्वात् । तथा च प्रयोगः-विवादपदं, ब्रिज्ञा नाकारः संप्रयोगमन्तरेणापरोक्षत्वाद्विज्ञानवादति । तदनुपपन्नम् । विकल्पासहस्वात् । बाधकोऽवबोधः किं साक्षाज्ञानाकारतां बोधयत्याद्वा! नाऽऽद्य नेदं रजतामिति प्रत्ययस्य रजतविवेकमात्रगोचरस्य नानाभेदगोचरतायामनुभवावि. रोधात् । नेदं रजतमिति रजतस्य पुरोवर्तित्वप्रतिषेधो ज्ञानाकारतां कल्पयतीति चेत्तदेतद्वार्तम् । प्रसक्तप्रतिषेधात्मनो बाधकावबोधस्य तत्रैव सत्त्वालतिषेधोपपत्तेः । विज्ञानाकारत्वसाधनमप्यविज्ञानाकारे बहिष्ठे साक्षिप्रत्यक्षे भावरूपाज्ञाने वर्तत इति सव्यभिचारः। नन्वन्यथाख्यातिवादिमतानुसारेण रजतस्य देशान्तरसत्त्वेन भाव्यम् । . अन्यथा तस्य प्रतिषेधप्रतियोगित्वानुपपत्तेः । न हि कश्चित्प्रेक्षावाशशविषाणं प्रतिषटुं प्रभवति । तदुक्तम् व्यावयाभाववत्तैव भाविकी हि विशेष्यता। . अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ (न्या० कु०.३।२) इति । तथा च तस्य देशान्तरसत्वमाश्रयणीयमिति चेत्तदपि न प्रमाणपद्धतिमा । असतः संसर्गस्येव कलधौतस्य निषेधप्रतियोगित्वोपपत्तेः । १ क. 'ज्ञानरू' । ख. 'ज्ञानस्वरूप' । २ क.- "तिम ।

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220