Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 178
________________ सर्वदर्शनसंग्रहे— ग्रहणस्मरणे चेमे विवेकानवभासिनी । सम्यग्रजतबोधाच्च भिन्ने यद्यपि तत्त्वतः ॥ तथाऽपि भिन्ने नाssभाते भेदाग्रहसमत्वतः । सम्यग्रजत बोधस्तु समक्षैकार्थगोचरः ॥ ततो भिन्ने अबुद्ध्वा च ग्रहणस्मरणे इमे । समानेनैव रूपेण केवलं मन्यते जनः ॥ अपरोक्षावभासेन समानार्थग्रहेण च । अवैलक्षण्यसंवित्तिरिति तावत्समर्थिता । व्यवहारोऽपि तत्तुल्यस्तत एव प्रवर्तते । (प्रक०प०४ । ३३-३७) इति । एवम गृहीतविवेक मापन्नसंनिहित रूप्यज्ञानसारूप्यं ग्रहणस्मरणद्वयमं यथाव्यवहारहेतुरिति सिद्धम् । यद्येवमयथाव्यवहारो ग्रहणस्मरणजन्यस्तर्हि पीतः शङ्ख इत्यादौ स न सिद्धस्तत्र तयोरभावादिति चेन्न । अगृहीतविवेकयोः प्राप्तसमीचीनसंसर्गज्ञानसारूप्यत्वे ग्रहणयोरेव व्यवहार संपादकत्वोपपत्तेः । नयनरश्मिवतिनः पित्तद्रव्यस्य पीतिमा दोषवशाद्द्रव्यरहितो गृह्यते । शङ्खोऽप्यकलितशुक्लगुणः स्वरूपतो गृह्यते । तदनयोर्गुणगुणिनोः संसर्गयोग्ययो र संसर्गाग्रह सारूप्यात्पतितपनीय पिण्डमत्यया वैलक्षण्याद्व्यवहार उपपद्यते । यथोक्तम् १५६ पीतशङ्खावबोधे हि पित्तस्येन्द्रियवर्तिनः । पीतिमा गृह्यते द्रव्यरहितो दोषतस्तथा ॥ 'शङ्खस्येन्द्रियदोषेण शुक्तिमा न च गृह्यते । केवलं द्रव्यमात्रं तु मैथते रूपवर्जितम् ॥ गुणे द्रव्यंव्यपेक्षे च द्रव्ये च गुणकाङ्क्षिणि । भासमाने तयोर्बुद्धिरसंबन्धं न बुध्यते ॥ . सत्यपीतावभासेन समे भाते मती इमे । व्यवहारोऽपि तत्तुल्य एवमत्रापि युज्यते ।। ( प्रक०प०४।४८-५१) इति । नन्विदं रजतमिति भ्रान्तिज्ञानानभ्युपगमे रजतप्रसक्तेरस स्वाभेदं रजतमिति निषेधः कथं कलधौताभावं बोधयतीति चेन्नैष दोष: । भेदाग्रहप्रसञ्जितस्य शुक्तौ रजतव्यवहारस्य निषेधस्वीकारेण कल्पनालाघवसद्भावात् । तदुक्तं पञ्चिकाप्रकरणे - १ ख.॰नार्थे ग्र ं । २ ख. 'तेः । विनीय न'। ३ ख. 'गुणितोऽसं' । ४ ख. 'नः । पित्तमा । ५ ख. प्रथिते । ६ ख. व्यस्य पक्षे । ७ ख 'क्षिणे । ८ ' त्यपित्ताव' ।

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220