Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 180
________________ १५८ सर्वदर्शनसंग्रहे 1 तदपरे न क्षमन्ते । इह खलु निखिलप्रेक्षावान्समीहिततत्साधनयोरन्यतर. प्रवेदने प्रवर्तते । न च रजतमर्थयमानस्य शुक्तिकाशकलज्ञानं तद्रूपमनुभावयितुं प्रभवति । शुक्तिकाशकलस्य समीहिततत्साधनयोरन्यतरभावाभावात् । नापि रजतस्मैरणं पुरोवर्तिनि प्रवृत्तिकारणम् । तस्यानुभवपारतन्त्र्यतयाऽनुभवदेश एव प्रवर्तकत्वात् । नापि भेदाग्रहो व्यवहारकारणम् । ग्रहणनिबन्धनत्वाचेतनव्यवहारस्य । ननु न वयमेकैकस्य कारणत्वं खूमहे येनैवमुपलभ्येमहि । किंत्वगृहीतविवेकस्य ज्ञानद्वयस्य प्राप्तसमीचीनपुरः स्थितरजत ज्ञानसारूप्यस्येत्यनुक्तोपालम्भोऽयमिति चेत्तदप्ययुक्तम् । विकल्पासहत्वात् । तथाहि - समीचीनरजतावभाससारूप्यं भासमानं प्रवर्तकं सत्तामात्रेण वा । आद्ये विकल्प भेदाग्रहापस्पर्यायस्य सांरूप्यस्य समीचीनसंनिभे इमे ज्ञाने इति विशेषाकारेण गृह्यमाणस्य प्रवृत्तिकारणत्वं किंवऽनयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहो विद्यत इति सामान्याकारेण गृह्यमाणस्य सारूप्यस्य । नाऽऽग्रेः । समीचीनज्ञानवत्तसंनिभज्ञानस्य तदुचितव्यवहारप्रवर्तकत्वानुपपत्तेः । न खलु गोसंनिभो गवय इत्यवभासो गवार्थिनं गवये प्रवर्तयति । न द्वितीयः । व्याहतत्वात् । न खल्वनाकलितभेदस्यानयोरित्यनयोरिति ग्रह भेदाग्रह इति च प्रतिपत्तिभवति । अतः परिशेषात्सत्तामात्रेण भेदानहरूपस्य सारूप्यस्य व्यवहारकारणत्वमङ्गीकर्तव्यम् । एवमेवास्त्विति चेत्तदमिह संप्रधार्यम् - किमयं भेदाग्रह समरिपोत्पादनक्रमेण व्यवहारकारणमस्तूतानुत्पादितारोप एवं स्वय मिति । न च द्वितीयः पक्ष एव श्रेयान् । तावतैव व्यवहारोत्पत्तावारोपस्य गौरवदोषदुष्टस्वदिति मन्तव्यम् । विशिष्टव्यवहारस्य विशिष्टज्ञानपूर्वकत्वनिय मेमाङ्गामपूर्वकस्वानुपपत्तेः । नम्बयं व्यवहारो नाज्ञानपूर्वक इत्यनाकलितपराभिसंधिः स्वसिद्धान्त सिं दाययदि कश्चिच्छन्त स प्रतिवक्तव्यः । शुक्तिकाविषयस्य ग्रहणस्यासमीहितविषयत्वेन रजतार्थिमवृसिंहेतुत्वा संभवादन्वयव्यतिरेकाभ्यां रजतज्ञानस्यं समीहितविषयत्वेन प्रवृत्तिहेतुत्व सं यवाच्चेदमर्थाभिसंभिन्नग्रहविविक्तस्यापि रजतस्मरणस्य कारणत्वं वक्तव्यम् । तच्च वक्तुं न शक्यते । जानाति इच्छति ततः प्रवर्तत इति न्यायेन ज्ञानेच्छाप्रवृत्तीनां समानविषयत्वेन भाव्यम् | तथा चेदंकारास्पदाभिमुख प्रवृत्तस्य रजतार्थिनस्तदिच्छानिवन्धनम् । अन्यथाऽ १ ख.॰भवें पा ̊ । २ खः 'हे व्य' । ३ क. ' वा तयों । ४ खं प्रसार्यम् । ५ क. मुख्यर° । ख. ‘मुखर ं ।

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220