Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 170
________________ १४८ सर्वदर्शनसंग्रहेधतात्पर्यलिङ्गवत्तया तत्त्वं बोधयतामुपचरितार्थत्वानुपपत्तेः । लिङ्गपदकं च पूर्वाचायेदर्शितम् उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ इति । तत्र सदेव सोम्येदमन आसीदित्युपक्रमः । ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैक्यरूप्यमेकलिगम् । असकृत्तत्त्वमसीत्युक्तिरभ्यासः । मानान्तरागम्यत्वमपूर्वत्वम् । एक विज्ञानेन सर्वविज्ञानं फलम् । सृष्टिस्थितिप्रलयप्रवेशनियमनानि पश्चार्थवादाः । मृदादिदृष्टान्ता उपपत्तयः । तस्मादेतैर्लिङ्गैर्वेदान्तानां नित्य शुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्वं निश्चेतव्यम् । तदित्थमोपनिषदस्याऽऽत्मतस्वस्याहमनुभवेऽनवभासमानत्वात्तस्यानुभवस्याध्यस्तात्मविषयत्वं सिद्धम् । कणभक्षाक्षचरणादिकक्षीकृतस्याऽऽत्मनो भानाभावादहमनुभवस्याध्यस्ता. त्मविषयत्वमेषितव्यम् । नैं तावदहमनुभवः सर्वगतत्वमात्मनोऽवगमयितुमीष्टे । अहमिहास्मि सदने जानानं इति प्रादेशिकत्वग्रहणात् । न चेदं देहस्य प्रादेशि. कत्वं प्रतिभासत इति वेदितव्यम् । अहमित्युल्लेखायोगात् । ननु यथा राज्ञः सर्वप्रयोजनविधातरि भृत्ये ममाऽऽत्मा भद्रसेन इत्युपचारस्तदात्मवचनस्याहं. शब्दस्य देह उपचार इति चेन्मैवं वोचः । उपचरितात्मभावस्य देहादेः स्वसमा. नाकृतिशिलापुत्रकादिवज्ज्ञातृत्वायोगात् । न च ज्ञातृत्वमप्युपचरितम् । प्रयोक्नुः स्वप्रतिपत्तिप्रकाशके प्रयोगे प्रतिपत्तृत्वोपचारानुपपत्तेः । अथ देहधर्मः प्रादेशिकत्वमात्मन्युपर्यंत तदा देहात्मनोर्भेदेन भवितव्यम् । प्रसिद्धभेदे माणवके सिंहशब्दवत्सांप्रतिकगौणत्वे तिरोहितभेदेन सार्षपादौ रसे तैलशब्दवबिरूढगौणत्वे वा गौणमुख्ययोर्भेदाध्यवसायस्य नियतत्वात् । अथ मम शरीरमिति भेदभानसंभवाद्गौणत्वं मन्येयास्तदयुक्तम् । अहंशब्दार्थस्य देहादिभ्यो निष्कृष्यासाधारणधर्मवत्त्वेन प्रतिभासमानत्वाभावात् । अपरथा लोकायतिकमतं नोदयमासादयेत् । मम शरीरमित्युक्तिस्तु राहोः शिर इतिवदौपचारिकी । मम शरीरमिति ब्रुवाणेनापि कस्त्वमिति पृष्टेन वक्षस्थलन्यस्वहस्तेन शृङ्गग्राहिकयाऽयमहमिति प्रतिवचनस्य दीयमानत्वेन देहात्मप्रत्ययस्य सकलानुभवसि. द्धत्वात् । तदुक्तम्-- १ ख. नादिप । २ क. ग.-च. 'वेनाव । ३ ख. ग. °नोऽनवभासाद । ४ ख. न तदाह । ५ ख. नयिति । ६ क. ग. °द्वदनात्म° । ७ ख. धर्मना । ८ ख. चर्यते।

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220