Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
१५२
सर्वदर्शनसंग्रहे
मं चैतेषां स्वरूपपरत्वे प्रयोजनमस्ति । श्रुतवेदान्तार्थस्यापि पुंसः सांसारिकधर्माणामनिवृत्तेः । तस्माद्वेदान्तानामध्यात्मा ज्ञातव्य इति समाम्नातेन विधिनैकवाक्यतामाश्रित्य कार्यपरतैवाऽऽश्रयणीयेति सिद्धम् । ततश्च केवलसिद्धरूपे ब्रह्मणि वेदान्तानां प्रामाण्यं न सिध्यतीति चेत् ।
अत्र प्रतिविधीयते न तावत्सिद्धे व्युत्पत्त्यसिद्धिः । प्रागुनीतया नीत्या पुत्रस्ते जात इति वाक्यात्सिद्धपरादपि व्युत्पत्तिसिद्धेः । न च परिशेषावधा रणानुपपत्तिः प्रियसुखप्रसवादेरपि संभवादिति भणितव्यम् । पुत्रपदाङ्कितपटप्रदर्शनवत्प्रियासुखप्रसवादि सूचकाभावात् । पुत्रजन्मैव तत्सूचकमिति चेत्मथमप्रतीत पुत्र जन्मपरित्यागे कारणाभावात् । पुत्रजननस्यैवाधिकानन्दहेतुत्वाच्च । पुत्रोत्पत्तिविपत्तिभ्यां नापरं सुखदुःखयोः ।
इति विद्यमानत्वात् । तथा चाचकथच्चित्सुखाचार्य:दृष्टचैत्रतोत्पत्तेस्तत्पदान्तिवाससा ।
वार्ताहारेण यातस्य परिशेषविनिश्चितेः ॥ (चित्सु० पृ० ८८) इति । यदुक्तं सिद्धार्थपरेषु कार्याध्याहार इति तदयुक्तम् । मुख्यार्थविषयतया सिद्धेऽपि प्रयोगसिद्धावध्याहारानुपपत्तेः । यदुक्तं शास्त्रत्वप्रसिद्धया च म स्वरूपपरत्वमिति तदप्ययुक्तम् । हितशासनादपि शास्त्रत्वोपपत्तेः । न च प्रयोजनाभावः । श्रुतमतवेदान्तजन्याद्वितीयात्म विज्ञानाभ्यासेन विद्योदये संसार निदानाविद्यानिवृत्त्युपलक्षितब्रह्मात्मता लक्षणपरमपुरुषार्थसिद्धेः । न चात्र विधिः संभवति । विकल्पासहत्वात् । तथाहि किं शाब्दज्ञानं विधेयं किंवा भावनात्मकमाहोस्वित्साक्षात्काररूपम् । नाऽऽयः । विदितपदार्थसंगतिकस्थांभीत शब्द न्यायत स्वस्यान्तरेणापि विधि शब्दादेवोपपत्तेः । नापि द्वितीयः । भावनाया ज्ञानप्रकर्षहेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् ।
.
ममापकस्यैव विधित्वाङ्गीकारात् । तृतीये साक्षात्कारः किं ब्रह्मस्वरूपः किंवाऽन्तःकरणपरिणामभेद: । नाऽऽद्यः । तस्य नित्यत्वेनाविधेयत्वात् । नापि द्वितीयः । आनन्दसाक्षात्काररूपतया फलत्वेनाविधेयत्वात् । तस्माज्ज्ञातव्य इत्यादीनामविधायकत्वाद कृत्यतृचश्च ( पा० सू० ३ | ३ | १६९ ) इति कृत्यप्रत्ययानामर्हार्थे विधानादर्हार्थतैव व्याख्येया । तथा च सर्वेषां वेदान्तवाक्याना मुपक्रमोपसंहारादिषड़विधतात्पर्योपेतत्वान्नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्व
मास्थेयम् ।
१ ख 'ससम् । २ ख. ग. क्तं प्रवृत्तिपराणामवे शास्त्रत्वमिति । तन्न । हि । ३ ख . ' स्याधिग• तशाब्द ं । ४ ख. 'र्थतयैव ।
Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220