Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 175
________________ शांकरदर्शनम् । निष्पदेशे परमाणौ प्रदेशवृत्तित्वेनाभिमतस्य संयोगस्य दुरुपपादनतया तन्निबन्धनस्य व्यणुकस्यासिद्धौ व्यणुकादिक्रमेणाऽऽरम्भवादासंभवादचेतनाया। प्रकृतेर्महदादिरूपेण परिणामवादासंभवाच्च ख्यातिबाधान्यथानुपपत्त्याऽनिर्वचनीयः प्रपश्चश्चिद्विवर्त इति सिद्धम् । स्वरूपापरित्यागेन रूपान्तरापत्तिविवर्त इति सत्यमिथ्याख्यावभास इति । अवभासोऽध्यास इति पर्यायः । स चाध्यासो द्विविधः । अर्थाध्यासो ज्ञानाध्यासश्चेति । तदुक्तम् प्रमाणदोषसंस्कारजन्माऽन्यस्य परात्मता। . तद्धीश्चाध्यास इति हि द्वयामिष्टं मनीषिभिः ॥ इति । पुनरपि द्विबिधोऽध्यासः । निरुपाधिकसोपाधिकभेदात् । तदप्युक्तम् दोषेण कर्मणा वाऽपि क्षोभिताज्ञानसंभवः । तत्त्वविद्याविरोधी च भ्रमोऽयं निरुपाधिकः ।। उपाधिसंनिधिप्राप्तक्षोभाविद्याविजृम्भितम् ।। उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम् ।। इति । .. तत्र स्वरूपेण कल्पिताहमाद्यध्यासो निरुपाधिकः । तदप्युक्तम्. .. नीलिमेव वियत्येषा भ्रान्त्या ब्रह्मणि संमृतिः । घटव्योमेव भोक्ताऽयं भ्रान्तो भेदेन न स्वतः ॥ इति ।... अत एव भाष्यकारः शुक्तिका रजतवदवभासत एकश्चन्द्रः सद्वितीयवदिति 'गिदर्शनद्वय मुदाजहार । शिष्टं शास्त्र एव स्पष्टमिति विस्तरभियोपरम्यते । एवं च दृग्दृश्यों द्वावेव पदार्थाविति वेदान्तिनां सिद्धान्त इति सर्वमवदातम् । __ अत्र प्रभाकरें:-शुक्तिका रजतवदवभासत इति दृष्टान्तो नेष्टः । रजतप्रत्य. यस्य शुक्तिकालम्बनत्वानुपपत्तेः । तथाहि-इदं रजतमिति प्रतीतो शुक्र्तरालम्बनत्वं पुरोदेशसंत्तामात्रेणावलम्ब्यते कारणत्वेन भासमानत्वेन वा । नाऽऽद्यः । पुरोवर्तिनां लोष्टादीनामप्यालम्बनत्वप्रसङ्गात् । अथ कलधौतबोधकारणसंस्का. रोद्बोधकारणत्वेन तद्वारा रजतज्ञानकारणत्वादालम्बनत्वं मन्यसे । तदपि न • संगच्छते । चक्षुरादीनामपि कारणत्वेन विषयत्वापातात् । अथ भासमानतया विषयत्वमिष्यते तदप्यश्लिष्टम् । रजतनिर्भासस्य शुक्तिकालम्बनत्वानुपपत्तेः । यस्मिन्विज्ञाने यदवभासते तत्तदालम्बनम् । अत्र च कलधौतानुभवः शुक्तिका. लम्बनत्वकल्पनायां विरुध्यते । तथा चाचकथन्न्यायवीभ्यां शालिकानाथ: १ ख. °दिप्रक्र । २ ख. वर्तः स । ३ क.. भितज्ञा । ४ ख. पाध्युप° । ५ ख. रः प्राह-शु। ६ ख. वा। न प्रथमः। पु। ७ ख. 'तबोधिकरणं सं । ८ ख. द्दाररजतजज्ञा। ९ ख. 'नाऽयं नावि।

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220