Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 172
________________ १५० सर्पदर्शनसंग्रहेकृष्णोऽहमित्यादीनां प्रख्यानानां बुद्धया सरूपताख्यानेनौपचारिकत्वं प्रत्याख्यातम् । तद्व्यापकभेदभानासंभवस्य प्रागेव प्रपञ्चितत्वात् । तथा च प्रयोगः-विमतं शास्त्रं विषयप्रयोजनसहितमाविद्यकबन्धनिवर्तकत्वात्सुप्तोत्थितबोधवत् । यथा स्वमावस्थायां मायापरिकल्पितयोषादिकृतबन्धनिवर्तकस्य सुप्तोत्थितबोधस्य मन्दिरमध्ये सुखेन शय्यायामवतिष्ठमानो देहो विषयः । तस्य सुप्तबोधेनानिश्चयात् । स्वप्नमायाविजृम्भितानर्थनिवृत्तिः प्रयोजनम् । एवं मननादिजन्यपरोक्षज्ञानेद्वारेणाऽऽध्यासिककर्तृत्वभोक्तृत्वाद्यनर्थनिषेधकस्य शा. त्रस्य सच्चिदानन्दैकरसं प्रत्यगात्मभूतं ब्रह्म विषयः । तस्याहमनुभवेनानिश्च यात् । अध्यसानिवृत्तिः प्रयोजनम् । तथा चाफलत्वादिति हेतुरसिद्ध इति सिद्धम् । तदुक्तम्.. श्रुतिगम्यात्मतत्वं तु नाहंबुद्धयाऽवगम्यते । अपि खे कामतो मोहा नाऽऽत्मन्यस्तविपर्यये ।। इति । " इतोऽयमसंदिग्धत्वादिति हेतुरप्यसिद्ध इति सिद्धम् । यद्यपि सर्वः प्राणी प्रत्यागात्मास्तित्वं प्रत्येति अहमस्मीति । न हि कश्चिदपि नाहमस्मीति विप्रतिपद्यते । प्रत्यगात्मैव ब्रह्म। तत्त्वमास(छा०६।८।७)इति सामानाधिकरण्यात् । तस्मादात्मतत्त्वमसंदिग्धं सिद्धम् । तथाऽपि धर्म प्रति विप्रतिपन्ना बहुविधा इति न्यायेन विशेषप्रतिपत्तिरुपपद्यत एव । तथाहि-चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते । इन्द्रियाण्यात्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धा बुद्धयन्ते । देहपरिमाण आत्मेति जैना जिनाः प्रतिजानते। कर्तृत्वादिविशिष्टः परमेश्वराद्भिन्नो जीवात्मति नैयायिकादयो वर्णयन्ति । द्रव्यबोधस्वभावमात्मेत्याचार्याः परिचक्षते । भोक्तव केवलं न कर्तेति सांख्याः संगिरन्ते । चिद्रूपः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौप. निषदा भाषन्ते । एवं प्रसिद्ध धर्मिणि विशेषतो विप्रतिपत्तौ तद्विशेषसंशयो युज्यते । तथा च संदेहसंभवाज्जिज्ञास्यत्वं ब्रह्मणः सिद्धम् । तदित्थं ब्रह्मणो विचार्यत्वसंभवेन तद्विचारात्मकं ब्रह्ममीमांसाशास्त्रमारम्भणीयमिति युक्तम् । जन्माद्यस्य यतः (ब्र० सू० १ । १ । २ ) इत्यादिसर्वस्य शास्त्रस्यैतद्विचारापेक्षत्वाच्छास्त्रपथमाध्यायसंगतमिदमधिकरणम् । .. नन्वित्थंभूते ब्रह्मणि किं प्रमाणे प्रत्यक्षमनुमानमागमो वा । न कदाचित्तत्र १ ख. योगावि । २ ख. शास्त्रबि । ३ ख. 'हो न वि°। ४ ख. नव्यापारे । ५ ख. त्वं ना । ६ ख. नान्यस्त । ७ ख. °चार्य प°। ८ ख. र्यत्वेन स ।

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220