Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 163
________________ पातञ्जलदर्शनम् । १४१ ऋतंभरा तत्र प्रज्ञा ( पात यो० सू० १।४८ ) इति । ऋतं सत्यं बिभर्ति कदा. चिदपि न विपर्ययेणाऽऽच्छाधते । तत्र स्थितौ दाढयें सति द्वितीयस्य योगिनः सा प्रज्ञा भवतीत्यर्थः । चत्वारः खलु योगिनः प्रसिद्धाः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। न त्वनेन परचित्तादिगोचरज्ञानरूपं ज्योतिर्वशीकृतमित्युक्तं भवति । ऋतंभरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः । परवैराग्यसंपन्नश्चतुर्थः । मनोजविवादयो मधुप्रतीकसिद्धयः । तदुक्तं-मनोजवित्वं विकरणभावः प्रधानजयश्च (पात० यो० सू०३.४८) इति । मनोजवित्वं नाम कायस्य मनोवदनुत्तमो गतिलाभः । विकरणभावः . कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्षत्तिलाभः । प्रधानजयः प्रकृतिविकारेषु सर्वेषु वशित्वम् । एताश्च सिद्धयः करणपश्वकरूपजयात्तृतीयस्य योगिनः प्रादुर्भवन्ति । यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त इति मधुप्रतीकाः । सर्वभावाधिष्ठातृत्वादिरूपां विशोका सिद्धिः । तदाह-सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वं च (पात यो० सू०३।४९) इति । सर्वेषां व्यवसा. याव्यवसायामकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञातृत्वम् । तदुक्तम्--विशोका वा ज्योतिष्मति (पात० यो० सू०१।३६) इति । सर्वत्तिप्रत्यस्तमैये परं वैराग्यमाश्रितस्य जात्यादिवीजानां क्लेशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञातपदवेदनीयः संस्कारशेषताव्यपदेश्यश्चित्तस्यावस्थावि. शेषः । तदुक्तम्-विरॊमप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (पात० यो० सू० १।१८) इति । एवं च सर्वतो विरज्यमानस्य तस्य पुरुषधौरेयस्य क्लेशबीजानि निर्दग्धंशालिबीजकल्पानि प्रसवसामर्थ्य विधुराणि मनसा साध प्रत्यस्त गच्छन्ति । तदेतेषु प्रलीनेषु निरुपप्लवविवेकख्यातिपरिपाकवशात्कार्यकारणात्मकानां प्रधाने लयः चितिशक्तिः स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वाभिसंबन्धविधुरी वा कैवल्यं लभत इति सिद्धम् । द्वयी च मुक्तिरुक्ता पतञ्जलिना-पुरुषार्थशू १ क. रूप्यं वै ज्यो । २ ङ.-च. 'रणाभा । ३ ख. मनुवदनोतमो' । ४ क. घ. वदनुत्तमो। ङ.-च. 'वदुत्तमो ।५ ङ.-च. रणाभा । ६ ख. प्रधानवि । ७ च. म् । श्रुताश्च । ८ ङ. 'वाद्यधि । ९ क-ग. ङ च. पादिरूपा वि । १० क. घ. वसेया । ११ घ. "त्मकगु। १२ घ. 'मयप । १३ ख. 'रता । १४ क. ख. रामः प्र । १५ घ. ग्धबीजनिर्दग्धशा । १६ ख घ.-च. °सत्ताभि । १७ क.ग. ङ. च. °रा कै।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220