Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 142
________________ सर्वदर्शनसंग्रहे-- ततश्च सुखदुःखमोहात्मकस्य प्रपञ्चस्य तथाविधकारणमवधारणीयम् । तथा च प्रयोगः-विमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात् । यद्येनान्बीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितं सुवर्णकारणकम् । तथा चेदं तस्मात्तथेति । तत्र जगत्कारणे येयं सुखात्मकता तत्सत्त्वं या दुःखात्मकता तद्रजो या च मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः । तथाहि-प्रत्येकं भावास्यगुण्यवन्तोऽनुभयन्ते । यथा मैत्रदारेषु सत्यवत्यां मैत्रस्य सुखमाविरस्ति । तं प्रति सत्त्वगुणप्रादुर्भावात् । तत्सपत्नीनां दुःखम् । ताः प्रति रजोगुणप्रादुर्भावात् । तामलभमानस्य चैत्रस्य मोहो भवति । तं प्रति तमोगुणसमुद्भवात् । एवमन्यदपि घटादिकं लभ्यमानं सुखं करोति । परैरपह्रियमाणं दुःखा करोति । उदासीनस्योपेक्षाविषयत्वेनापतिष्ठते । उपेक्षाविषयत्वं नाम मोहः । मुह वैचित्ये, इत्यस्माद्धातोर्मोहशब्दनिष्पत्तेः। उपेक्षणीयेषु चित्त वृत्त्यनुदयात् । तस्मात्सर्वं भावजातं सुखदुःखमोहात्मकं त्रिगुणप्रधानकारणकमवगम्यते । तथा च श्वेतश्वतरोपनिषदि श्रयते अजामेकां लोहितशुक्ल कृष्णां बह्वीः *प्रजाः सृजमानां सरूपाः । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः।।(४।५)इति। अत्र लोहितशुकृष्णशब्दा रञ्जकत्वप्रकाशकत्वावरकत्वसाधोद्रजःसत्त्वतमो. गुणत्रयप्रतिपादनपराः। नवचेतनं प्रधानं चेतनानाधिष्ठितं महदादिकार्ये न व्याप्रियते । अतः केनचिचेतनेनाधिष्ठात्रा भवितव्यम् । तथा च सर्वार्थदर्शी परमेश्वरः स्वीकर्तव्यः स्यादिति चेत्तदसंगतम् । अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थाय प्रवर्तमानं यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते यथा च जलमचेतनं लोकोपकाराय प्रवर्तते तथा प्रकृतिरचेतनाऽपि पुरुषविमोक्षाय प्रवस्य॑ति । तदुक्तम् वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ( सां० का० ५७) इति । यस्तु परमेश्वरः करुणया प्रवर्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः सं गर्भस्रावेण गतः। विकल्पानुपपत्तेः । स किं सृष्टेः प्राक्प्रवर्तते सृष्टयुत्तरकालं वा। ___* सर्वदर्शनसंग्रहपुस्तकेषु तु प्रजा जनयन्तीमिति पाठः । १ क.-. "स्य त । २ क.--"वर्णाका' । ३ क तत्पत्नी । ग. तत्पतीनां । ४ च. त्वेन ध्यवति । ५ ख. पि प्रयो । ६ क. ख. ग. घ पार्थे प्र । ७ क. ख. ग. वृद्ध्यर्थ क्षी' । क.--ङ. स प्रायेण ।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220