Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 154
________________ १३२ सर्वदर्शनसंग्रहे--- एवमयमविद्या चतुष्पदा भवति । नन्वेतेष्वविद्याविशेषेषु किंचिदनुगतं सामान्यलक्षणं वर्णनीयम् । अन्यथा विशेषस्यासिद्धेः । तथा चोक्तं भट्टाचार्यै:सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम् । न शक्यं केवलं वक्तुमतोऽप्यस्य न वाध्यता ।। इति । तदपि न वाच्यम् । अतस्मिंस्तद्बुद्धिरिति सामान्यलक्षणाभिधानेन दत्तोत्तरत्वात् । सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मिता । तदप्युक्तं - दृक् दर्शनशक्योरेकात्मतेवास्मिता (पात० यो० सू० २ । ६ ) इति । सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गधों रागः । दुःखाभिज्ञस्य तदनुस्मृतिपुरःसरं तत्साधनेषु निवृत्तिद्वेषः । तदुक्तं - सुखानुशयी रागः ( पात० यो० सू० २ । ७ ) दुःखानुशयी द्वेषः ( पात० यो० सू० २ । ८ ) इति । किमत्रानुशयिशब्दे ताच्छील्यार्थे णिनिरिनिर्वा मत्वर्थीयोऽभिमतः । नाऽऽद्यः । सुप्यजातौ णिनिस्ताच्छील्ये (पा०सू० ३।२ / ७८) इत्यत्र सुपीति वर्तमाने पुनः सुग्रहणस्योपसर्गनिवृत्त्यर्थत्वेन सोपसर्गाद्धातोर्णिनेरनुत्पत्तेः । यथाकथंचितदङ्गीकारेऽप्यचोऽणिति (पा० सू० ७ । २ । ११५ ) इति वृद्धिमसक्तावर्तिशाय्यादिपदवदनुशायिपदस्य प्रयोगप्रसङ्गात् । न द्वितीयः । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ । इति तत्प्रतिषेधात् । अत्र चानुशयशब्दस्याजन्तत्वेन कृदन्तत्वात् । तस्मादनुशयिशब्दो दुरुपपाद इति चेन्नैतद्भद्रम् । भवानवबोधात् । प्रायिकाभिप्रायमिदं वचनम् । अत एवोक्तं वृत्तिकारणं - इतिकरणो विवक्षार्थः सर्वत्राभिसंबध्यत इति । तेन क्वचिद्भवति कार्यं कार्यिकस्तण्डुली तण्डुलिक इति । तथा च कृदन्त | ज्जातेश्च प्रतिषेधस्य प्रायिकत्वम् । अनुशयशब्दस्य कृदन्ततयेने रूपपत्तिरिति सिद्धम् । पूर्व जन्मानुभूतमरणदुःखानुभववासनाबलात्सर्वस्य प्राणभृन्मात्रस्या कृमेरौं च विदुषः संजायमानः शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानां भँयरूपोऽभिनिवेशः पञ्चमः क्लेशः । मान भूवं हि भूयासमिति प्रार्थनायाः प्रत्यात्ममनुभवसिद्धत्वात् । तदाह - स्वरसवाही विदुषोऽपि तथा १ ख. ध. च. 'तुष्पादा | २ क. क्षणां मुक्त्वा । ग. क्षणं मुक्त्वा । ३ घ. 'स्मितेति । त° । ४ क. - ङ. दुःखज्ञ । ५ क ग ङ. च निन्दाद्वेषः । ६ च 'नुगदिश । ७ क. - ग. ङ. च. 'चिद । ८ क. - ग. ङ. च. तिशय्या" । ९ घ. शयश । १० घ. भावनान' । ११ घ. बोधप्रायि' । १२ च. 'णेतिकरणेन । इ° । १३ घ. कार्य का । च. कार्य : कार्या कार्यकस्तण्डुलिर्मण्डाल' । १४ क °रा वि' । १५ घ. भवरू । १६ घ. भूत्वा संतिष्ठामीति ।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220