Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 158
________________ १३६ सर्वदर्शनसंग्रहे मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणाऽऽरोपिता क्रिया ॥ (२९) इति । यच्छब्देन लक्ष्यत इत्याख्याते गुणीभूतं प्रतिपादनमात्रं परामृश्यते । सा लक्षगति प्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः । तदुक्तं कैयटैःनिर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तत्तल्लिगमुपाददत इति । तत्र कर्मणि कुशल इत्यादि रूढिलक्षणाया उदाहरणम् । कुशाल्लातीति व्युत्पत्त्या दर्भादानकर्तरि यौगिकं कुशलपदं विवेचकत्वसारूप्यात्मवीणे प्रवर्तमानमनादिवृद्धव्यवहारपरम्परानुपातित्वेनाभिधानवत्प्रयोजनमनपेक्ष्य प्रव. तेते । तदाह-- निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् (त०वा०) इति । तस्मादूढिलक्षणायाः प्रयोजनापेक्षा नास्ति । यद्यपि प्रयुक्तः शब्दः प्रथम मुख्यार्थ प्रतिपादयति तेनार्थेनार्थान्तरं लक्ष्यत इत्यर्थधर्मोऽयं लक्षणा तथाऽपि तत्सतिपादके शब्दे समारोपितः सञ्शब्दव्यापार इति व्यपदिश्यते । एतदेवाभिप्रेत्योक्तं लक्षणाऽऽरोपिता क्रियेति । प्रयोजनलक्षणा तु षड्विधा। उपादानलक्षणा लक्षणलक्षणा गौर्णसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्धसाध्यवसाना चेति । कुन्ताः प्रविशन्ति । मश्चाः क्रोशन्ति । गौवाहीकः। गौरयम् । आयुर्घतम् । आयुरेवेदमिति यथाक्रममुदाहरणानि द्रष्टव्यानि । तदुक्तम् स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। सारोपाऽन्या तु यत्रोक्तो विषयी विषयस्तथा । विषष्यन्तःकृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका ।। भेदाविमौ च सारश्यात्संबन्धानतरतस्तथा। गोणी शुद्धौ च विज्ञेयो लक्षणा तेन षद्विधा । (का०प्र०२।१०-१२) इति । तदलं काव्यमीमांसाममनिमन्थनेन । स च योगो यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः । तत्र यमा अहिंसा. दयः । तदाह पतञ्जलि:-अहिंसासस्थास्तेयब्रह्मचर्यापरिग्रहा यमाः(पात यो. १ क. ख. ग. घ. 'मो यस्य ल । २ क. ख. घ. णसमारो । ३ च. 'ति । काणाः प्र। ४ क. ख. वाहिकः । ५ ख. °क्षणा चे । ६ क र्मथने ।

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220