Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 49
________________ आहेतदर्शनम् । - २७ . अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वे स्तः । तत्र बोधात्मको जीवः । अबोधात्मकस्त्वजीवः । तदुक्तं पद्मनन्दिना चिदचिवे परे तत्त्वे विवेकस्तद्विवचनम् । उपादेयमुपादेयं हेयं हेयं च कुर्वतः ॥ हेयं हि कर्तरागादि तत्कार्यमविवेकिता । उपादेयं परं ज्योतिरुपयोगैकलक्ष गम् ॥ इति । सहजचिद्रूपपरिणति स्वीकुर्वाणे ज्ञानदर्शने उपयोगः । स परस्परप्रदेशानां प्रदेशबन्धात्कर्मणकीभूतस्याऽऽत्मनोऽन्यत्वप्रतिपत्तिकारणं भवति । सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिकक्ष यात्मकक्षायोपशमिकभावेन कर्मोदयवशात्कलुषान्याकारेण च परिणतजीवपर्यायविवक्षायां जीवस्वरूपं भवति । यदवोचद्वाचकाचार्य:-औपशमिकक्षायिकी भावौ मिश्रश्व जीवस्य स्वतत्त्वमौदयिकपारिणामिको चेति (त० सू०२।१)। * अनुदयप्राप्तिरूपे कर्मण उपशये सति जीवस्योत्पद्यमानो भाव औपशमिकः। यथा पैड कलुषतां कुर्वति कतकादिद्रव्यसंबन्धादध:पतिते जलस्य स्वच्छता । आईततत्त्वानुसंधानवशाद्रागादिपक्षालनेन निर्मलतापादकः क्षायिको भावः। कर्मणः क्षये सति जायमानो भावः क्षायिकः । यथा पङ्कात्पृथग्भूतस्य निर्मलस्य स्फटिकादिभाजनान्तगतस्य जलस्य स्वच्छता । यथा मोक्षः। उभयात्मा भावो मिश्रः। यथा जलस्याधस्वच्छता । कर्मोदये सति भवन्भाव औदयिकः । कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः । तदेतद्यथासंभवं भव्यस्याभव्यस्य वा जीवस्य स्वरूपामिति सूत्रार्थः । तदुक्तं स्वरूपसंबोधने ज्ञानाद्भिन्नो में नाभिन्नो भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ इति । ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैव वास्तवत्वादुभयात्मकत्व. मयुक्तमिति चेत्तदयुक्तम्। बाधे प्रमाणाभावात् । अनुपलम्भो हि बाधकं प्रमाणम् । न । . * घ. पु. टि.-संसारप्राप्तिरूपे । १ ख. ग. घ. गः प० । २ क.ग. च. णं लक्षणं भ' । ३ ख. °ववि । ४ च. क्षाथिको । ५ ख. पङ्कलुषान्तां । ६ घ.ता। अनुदयप्राप्तिकर्मणोऽर्धक्ष। ७ ख. मणोपशमक्ष । ८ च. उत्पद्यमानो। ९ ख. घ. भावो मि। १० ङ. क्षयिकः। ११ च. °था कर्मणः क्षयोपशमे सति जायामनो भा। १२ ख. स्यार्थे स्व । १३ ख. हजश्वेतत्वादिपा । १४ क. ग. °न वाभि । ङ.-च. न चाभिन्नो । १५ ख. °म् । बोधप्र ।

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220