Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 70
________________ ४८ सर्वदर्शनसंग्रहे.. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ॥ . (भ० गी० ८ । २२ ) इति च । . भक्तिस्तु निरतिशयानंन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानविशेष एव । तत्सिद्धिश्च विवेकादिभ्यो भवतीति वाक्यकारेणोक्तम्-तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यः संभवान्निर्वचनाचेति । तत्र विवेको नामादुष्टादन्नात्सत्त्वशुद्धिः । अत्र निर्वचनम्-आहारशुद्धः सत्त्वशुद्धिः सत्त्वशुद्धया ध्रुवा स्मृतिरिति । विमोकः कामानभिष्वङ्गः । शान्त उपासीतेति निर्वचनम् । पुनः पुनः संशीलनमभ्यासः । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेण- सदा तद्भावभावितः ( गी० ८ । ६ ) इति । श्रौतस्मातकर्मानुष्ठानं शक्तितः क्रिया । क्रियावानेष ब्रह्मविदां वरिष्ठ इति निर्वचनम्। सत्यार्जवदयादानादीनि कल्याणानि । सत्येन लभ्यत इत्यादि निर्वचनम् । दैन्यविपर्ययोऽ. नवसादः। 'नायमात्मा बलहीनेन लभ्यः' (मु० ३ । २। ४) इति निर्वचनम् । * तद्विपर्ययजा तुष्टिरुद्धर्षः । तद्विपर्य योऽनुद्धर्षः । शान्तो दान्त इति निर्वचनम् । . तदेवमेवंविधनियमविशेषसमासादितपुरुषोत्तमप्रसादविध्वस्ततमःस्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदात्मप्रत्ययावभासतापन्नध्यानरूपया भक्त्या पुरुषोत्तमपदं लभ्यत इति सिद्धम् । तदुक्तं यामुनेन-उभयपरिकमितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगो लभ्य इति । ज्ञानकर्मयोगसंस्कृतान्त:करणस्येत्यर्थः। किं पुनर्ब्रह्म जिज्ञासितव्यमित्यपेक्षायां लक्षणमुक्तम् ' जन्माद्यस्य यतः । (ब्र० सू० १ । १ । २) इति । जन्मादीति सृष्टिस्थितिप्रलयम् । तद्गुणसं. विज्ञानो बहुव्रीहिः । अस्याचिन्त्यविविधविचित्ररचनस्य नियतदेशकालेभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतो यतो यस्मात्सर्वेश्वरान्निखिलहेयप्रत्य. नीकस्वरूपात्सत्यसंकल्पाद्यनवधिकातिशयासंख्येयकल्याणगुणात्सर्वज्ञात्सर्वशः तेः पुंसः सृष्टिस्थितिपलयाः प्रवर्तन्त इति सूत्रार्थः। इत्यंभूते ब्रह्मणि किं प्रमाणमिति जिज्ञासायां शास्त्रमेव प्रमाणमित्युक्तं * घ. पु. टि.-दैन्यविपर्ययजा । १ ख. शयति । २ क. ग. नप्रि । ३ च. °मानामाभि । ४ घ. °ति च नि । ५ च. 'स्तध्वान्त । ६ क.-टु. यदात्म । ७ च. "त्मकभासतापन्नस्य ध्या । ८ क. ख. ग. घ. स्वातन्यै । ग. लफलभो । १० ग, "कानति,

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220