Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
[ 45
Catalogue of Sanskrit & Prakrit Manuscripts
APPENDIX 2 (Copies of inscriptions)
क्रोधाभैरवमूतिरुल्लसदसिकरप्रहाराद्भुत
___ रस्य त्वं यदनीनशः प्रकृतिमप्येतन्न नाश्चर्यकृत् ।।६४।। अत्यम्बुधि भवद्धैर्यमत्यादित्यं भवन्महः । अतिसिंहं भवच्छौर्यमत: केनोपमीयसे ॥६५॥ केयूरं तव भूपाल भुजदण्डे विराजते ।
किरीटमिव बाह्वन्तर्निवासि विजयश्रियः ।।६६।। यदर्चा संतत्य त्रिभुवनगुरोः स्तोत्रमकृथा
स्तदेष प्रीतस्त्वां ध्रुवमकृत कल्पस्थितिमिह । यदुत्सङ्गे तुङ्गे धवल रविचन्द्रांशुविमला,
प्रलम्बव्याजेन क्षितितिलकतारावलिरियम् ।।६७॥ वैतालिकैरित्थमभिष्टुतेन सम्पूजिता मर्त्यगुरुद्विजेन । विमुक्तकारागृहसंयतेन वितीर्णभूताभयदक्षिणेन ॥६८॥
तेनाभिषिक्तमात्रेण प्रतिजज्ञे द्वयं स्वयम् ।
पद्मनाथस्य संसिद्धिः कन्यायाः सद्वरार्पणम् ॥६६॥ तच्च द्वयं कृतमनेन विवेकभाजा राजात्मजा मदनहारिवराय दत्ता। श्रीपद्मनाथसुरमन्दिरमेतदुच्चीतं समाप्तिमविनाशि यशश्शरीरम् ॥७०॥ समर्पिता ब्रह्मपुरी च तेन शेषाम्विधायावनिदेवमुख्यान् । प्रवर्तितं सत्रमतन्द्रितेन मिष्टान्नपानरतिधामिकेण ॥७१।। श्रीपद्मनाथस्य स लोकनाथश्चक्रे द्वयं भूपतिचक्रवर्ती। नैवेद्यपाकाय विपक्कबुद्धिः प्रादात्प्रदीपाय च गोत्रदीपः ।।७२।। ब्रह्मोत्तरं मण्डपिकासमुत्थं द्विधा विधाय स्वयमीश्वरेण । श्रीपद्मनाथाय वितीर्णमर्द्धमर्द्धञ्च वैकुण्ठसुरेश्वराय ॥७३॥ विलासिनीवादकगायनादेयथार्हत: पादकुलस्य वृत्तिम् । स पद्मनाथस्य पुरः समग्रामकल्पयत् प्रेक्षणकायभूपः ।।७४।। पाषाणपल्ली प्रविभज्य सम्यग् देवाय सार्द्धानि पदानि पञ्च । सम्पादयामास तथा द्विजेभ्यः साञ्चितुर्विंशतिमुत्तमेभ्यः ॥७॥ ददौ करस्कन्धकपाटपीठं महीपतिस्तत्रभवं समस्तम् ।
आकाशपाताल समुद्गतं च देवद्विजेभ्यो लवरणाकरं च ॥७६।। तस्यादृष्टसहायतामुपगतो योगेश्वराङ्गोद्भवः,
ख्यातः सूरिसलक्षणः क्षितिपतेः सर्वत्र विश्वासभूः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378