Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 349
________________ 88 1 CLOSING (W.) & COLOPHON : CLOSING Ct. COLOPHON : Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Śāstri Dādhica Collection) Jain Education International प्रथमं तावत्परमकारुणिको भरतो नाम महामुनिः सुकुमारमतीन् राजकुमारान् गहनतरशास्त्रमार्गे गुडजिह्विकया प्रवर्त्तयितुमतिसुकुमारशास्त्रं कारिकाभिः प्रणेष्यन् चिकीर्षितनिर्विघ्नपरिसमाप्तिकामः शिष्टाचारानुमितश्रुतिबोधितकर्त्तव्यताकं समुचितेष्टदेवतानमस्कारलक्षणं मङ्गलमाद्यकारिया व्यङ्गत्वेन (प्रक्षेपेण) उपनिबध्नाति नियतीति । कवरुपास्या उपास्योपासकभावसम्बन्धेन षष्ठी, भारती वागधिष्ठात्री देवता कर्त्री, नियतिकृतनियमरहितां नियम्यते सौरभादयो धर्मा प्रनेनेति नियतिरसाधारणो धर्मः पद्मत्वादिरूपोऽदृष्टं वा तेन कृतो यो नियमः पद्मादिपदं पद्मादावेव शक्त न मुखादाविति रूपस्तेन रहिताम्, ह्लादैकमयीं ह्लादोऽलङ्कारकृतचमत्कारः स एव ह्लादैकः, एकशब्द इह मात्रार्थे तेन लक्षणया ह्लादमात्ररूपेऽति लभ्यते, ह्लादमात्ररूपैव ह्लादैकमयी ताम्, स्वार्थे मयटि टित्वाट्टिड्ढेति ङीप् न तु दुःखमोहमयीमपीति भावः । पुनरुक्तवदाभासो विभिन्नाकार शब्दगा । एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् ॥ इति भरतसूत्रे नवमः पादः ।। पुनरुक्तवदाभासं लक्षयति पुनरुक्तवदिति - विभिन्नाकारशब्दगा-- विभिन्ना प्राकारः स्वरूपं ययोस्तौ शब्दौ गच्छति तथाभूताया एकार्थतेव प्रापाततः प्रतीयमाना भिन्नार्थता वस्तुतस्तु भिन्नार्थतेव प्रयं पुनरुक्तवदाभासोऽलङ्कारः । पुनरुक्तवदाभासते प्रापातात: प्रतीतिविषयो भवति शब्दार्थो यस्मिन्निति व्युत्पत्तेः एनं विभजते । अयं शब्दस्य तथा शब्दार्थयोश्चेत्यर्थः । एवं च शब्दमात्र निबन्धनः शब्दार्थनिबन्धनश्चेति द्वैविध्यमस्योपरिवृत्य सहमात्र शब्दप्रयोगे शब्दमात्रनिबन्धनः, स च सभङ्गलिष्टनिष्ठः, प्रभङ्गलिष्टनिष्ठश्चेति द्विविधः । उभयविधशब्दप्रयोगे शब्दार्थनिबन्धनः प्रतस्त्रैविध्यमस्य सम्पन्नम् ||६|| इति पर्वणीकरोपनाम कसीतारावविरचितायां शब्दालङ्कारनिरूपणो नाम नवमपादः समाप्तः ॥ For Private & Personal Use Only लक्षणचन्द्रिकार्या छ छ छ छ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378