Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 371
________________ 1101 Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 4. Mahārājā's Public Library Collection) Post-. सं० १९४२ का द्वितीय ज्येष्ठ कृष्ण १२ बुधवासरे लिपीकृता कासिनाथेन । Colophonic : 118. अन्योक्तिमुक्तामाला(लता) OPENING ॥ ॐ ॥ श्रीगणेशाय नमः ।। मानं मुञ्च विपञ्चिपञ्चमरवन्यक्कारपारङ्गमा माभूवन् कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः। प्राप्तः पञ्चशरः प्रपञ्चशरणं यद्भगभङ्गीगुरु बन्धूकप्रियबान्धवो धवलितः श्यामाधवो माधवः ।।१।। xxx सत्यं सन्ति कियन्ति सन्ति न सखे रत्नानि रत्नाकरे, सञ्जातस्तु स वस्तुतस्स्तुतिकथापात्रं परं कौस्तुभः । यो जातः स्मरकेलिलोलकमला सोल्लासदोःकन्दली, लीलालिङ्गनभाजनं भगवती वक्षःस्थले शाङ्गिणः ।।३।। CLOSING : या लक्ष्मीः स्मरकामुके स्फुरति या बाल्ये प्रबाले रुचि र्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेखोल्लिते विभ्रमः । या कान्ति: कनकाम्बुजेऽपि सकलं द्रष्टुं तदैकत्र चे च्चेतः कन्दलिताद्भ तं तव सखे पश्याननं सुभ्रवाः ।।१०।। इति श्रीशम्भुकविकृता मुक्तालता समाप्ता। शुभं भवतु । संवत् १९४२ का असाढ कृष्ण ३ भौमे लिखितमिदम् । COLOPHON : PostColophonic : 119. अन्योक्तिशतकम् OPENING ॥ श्रीगोपीजनवल्लभाय नमः ॥ प्रोन्मीलल्लोलमौलिश्लथविकटजटाजालमालोक्य मुह्यन्, गंगासंपातजातभ्रमभरविवशो विक्षिपन् लोचनानि । आकर्षन् मौक्तिकाली गिरिवरदुहितुः कण्ठसीमांतरुच्चैः, प्रातः श्रीहैमवत्या तदनु विहसितो लज्जितः पातु शम्भुः॥१॥ पत्रं मुग्धतरं फलं सुमधुरं सौरभ्यमप्युन्नतं, चञ्चत्काञ्चनजित्वरं पुनरहो त्वत्केसरं सुन्दरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378