Book Title: Sanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Author(s): Jinvijay
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 346
________________ । 85 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts) CLOSING : इत्ययमों नः साधुः। काव्ये नियमस्य सत्वात् शब्दे छन्द:प्रभृतिषु । तथा च तत्तद्रसविशेषे, तत्तद्रीतिविशेषे, तत्तत्प्रबन्धे भाषाविशेषे च नियमस्य सत्वात् । अर्थेऽपि मुखादिकं चन्द्रत्वादिनैव वर्ण्यते नान्येनेति नियमस्य सत्वात् । स्निग्धः श्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाता: शोकरिणः पयोदसुहृदामानन्दकेका: कलाः । कामं सन्तु दृढं कठोरहृदये रामोऽिस्म सर्वसहे, वैदेही तु कथं भविष्यति हहाहा देवि धीरा भव ।। अत्र लिप्ते तु पयोदसुहृदामिति वात्यन्ततिरस्कृतिवाचकयोः संसृष्टिः । 'श्राभ्यां सह रामोऽस्मि' इति अर्थान्तरसंक्रमितवाच्यस्यान्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणकव्यंजकानुप्रवेशे न चार्थांतरसंक्रमितरसध्वन्योश्च संकर इति काव्यामृते तृतीयोल्लासः। अथ परोक्तगुणोभूतव्यंग्यस्याभेद ...। 508. चित्रमीमांसा OPENING : ॥ अथोपमेयोपमा निरूप्यते ।। उपमानोपमेयत्वं द्वयोः पर्यायतो यदि । उपमेयोपमा सा स्याद् द्विविधैषा प्रकीर्तिता ।। यदि द्वयोर्यद्वर्ण्यते सोपमेयोपमा इत्युच्येत तदा तुल्ययोगितायामतिव्याप्तिः । तत्र जनस्य तस्मिन् समये विगाढं बभूवतुर्की सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ।। इति यद्वयोर्नु पशशिनोयुगपदेकधर्मान्वयवर्णनादतः पर्यायेणेत्युक्तम् । यदि तु हेतुमता सह हेतोरभिधानं भेदतो हेतुरिति मतान्तराश्रयणेन तत्र हेत्वलंकारो न रूपकमित्यभ्युपगम्येत; तदारोपविषयस्य स्यादिति पूर्वोदाहृतलक्षणस्य तत्रातिव्याप्तिः । एवमुपमै (मा) तिरोभूतभेदारूपकमिष्यते। रूपकं तदभेदो यदुपमानोपमेययोरित्यादिलक्षणेष्वप्यतिव्याप्त्यादिदोषा यथासम्भवमुन्नेयाः । अत्र वदामः । बिम्बाऽविशिष्टे निर्दिष्टे विषये पद्यनिह्न ते। उपरञ्जकतामेति विषयीरूपकं तदा ॥ बिम्बा ..... CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378