________________
। 85
Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 3 (Extracts from important manuscripts)
CLOSING
:
इत्ययमों नः साधुः। काव्ये नियमस्य सत्वात् शब्दे छन्द:प्रभृतिषु । तथा च तत्तद्रसविशेषे, तत्तद्रीतिविशेषे, तत्तत्प्रबन्धे भाषाविशेषे च नियमस्य सत्वात् । अर्थेऽपि मुखादिकं चन्द्रत्वादिनैव वर्ण्यते नान्येनेति नियमस्य सत्वात् । स्निग्धः श्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना
वाता: शोकरिणः पयोदसुहृदामानन्दकेका: कलाः । कामं सन्तु दृढं कठोरहृदये रामोऽिस्म सर्वसहे,
वैदेही तु कथं भविष्यति हहाहा देवि धीरा भव ।। अत्र लिप्ते तु पयोदसुहृदामिति वात्यन्ततिरस्कृतिवाचकयोः संसृष्टिः । 'श्राभ्यां सह रामोऽस्मि' इति अर्थान्तरसंक्रमितवाच्यस्यान्यानुग्राह्यानुग्राहकभावेन रामपदलक्षणकव्यंजकानुप्रवेशे न चार्थांतरसंक्रमितरसध्वन्योश्च संकर इति काव्यामृते तृतीयोल्लासः। अथ परोक्तगुणोभूतव्यंग्यस्याभेद ...।
508. चित्रमीमांसा
OPENING
:
॥ अथोपमेयोपमा निरूप्यते ।। उपमानोपमेयत्वं द्वयोः पर्यायतो यदि ।
उपमेयोपमा सा स्याद् द्विविधैषा प्रकीर्तिता ।। यदि द्वयोर्यद्वर्ण्यते सोपमेयोपमा इत्युच्येत तदा तुल्ययोगितायामतिव्याप्तिः । तत्र
जनस्य तस्मिन् समये विगाढं बभूवतुर्की सविशेषकान्तौ । तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ।। इति यद्वयोर्नु पशशिनोयुगपदेकधर्मान्वयवर्णनादतः पर्यायेणेत्युक्तम् ।
यदि तु हेतुमता सह हेतोरभिधानं भेदतो हेतुरिति मतान्तराश्रयणेन तत्र हेत्वलंकारो न रूपकमित्यभ्युपगम्येत; तदारोपविषयस्य स्यादिति पूर्वोदाहृतलक्षणस्य तत्रातिव्याप्तिः । एवमुपमै (मा) तिरोभूतभेदारूपकमिष्यते। रूपकं तदभेदो यदुपमानोपमेययोरित्यादिलक्षणेष्वप्यतिव्याप्त्यादिदोषा यथासम्भवमुन्नेयाः । अत्र वदामः ।
बिम्बाऽविशिष्टे निर्दिष्टे विषये पद्यनिह्न ते। उपरञ्जकतामेति विषयीरूपकं तदा ॥ बिम्बा .....
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org