SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ [ 45 Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 2 (Copies of inscriptions) क्रोधाभैरवमूतिरुल्लसदसिकरप्रहाराद्भुत ___ रस्य त्वं यदनीनशः प्रकृतिमप्येतन्न नाश्चर्यकृत् ।।६४।। अत्यम्बुधि भवद्धैर्यमत्यादित्यं भवन्महः । अतिसिंहं भवच्छौर्यमत: केनोपमीयसे ॥६५॥ केयूरं तव भूपाल भुजदण्डे विराजते । किरीटमिव बाह्वन्तर्निवासि विजयश्रियः ।।६६।। यदर्चा संतत्य त्रिभुवनगुरोः स्तोत्रमकृथा स्तदेष प्रीतस्त्वां ध्रुवमकृत कल्पस्थितिमिह । यदुत्सङ्गे तुङ्गे धवल रविचन्द्रांशुविमला, प्रलम्बव्याजेन क्षितितिलकतारावलिरियम् ।।६७॥ वैतालिकैरित्थमभिष्टुतेन सम्पूजिता मर्त्यगुरुद्विजेन । विमुक्तकारागृहसंयतेन वितीर्णभूताभयदक्षिणेन ॥६८॥ तेनाभिषिक्तमात्रेण प्रतिजज्ञे द्वयं स्वयम् । पद्मनाथस्य संसिद्धिः कन्यायाः सद्वरार्पणम् ॥६६॥ तच्च द्वयं कृतमनेन विवेकभाजा राजात्मजा मदनहारिवराय दत्ता। श्रीपद्मनाथसुरमन्दिरमेतदुच्चीतं समाप्तिमविनाशि यशश्शरीरम् ॥७०॥ समर्पिता ब्रह्मपुरी च तेन शेषाम्विधायावनिदेवमुख्यान् । प्रवर्तितं सत्रमतन्द्रितेन मिष्टान्नपानरतिधामिकेण ॥७१।। श्रीपद्मनाथस्य स लोकनाथश्चक्रे द्वयं भूपतिचक्रवर्ती। नैवेद्यपाकाय विपक्कबुद्धिः प्रादात्प्रदीपाय च गोत्रदीपः ।।७२।। ब्रह्मोत्तरं मण्डपिकासमुत्थं द्विधा विधाय स्वयमीश्वरेण । श्रीपद्मनाथाय वितीर्णमर्द्धमर्द्धञ्च वैकुण्ठसुरेश्वराय ॥७३॥ विलासिनीवादकगायनादेयथार्हत: पादकुलस्य वृत्तिम् । स पद्मनाथस्य पुरः समग्रामकल्पयत् प्रेक्षणकायभूपः ।।७४।। पाषाणपल्ली प्रविभज्य सम्यग् देवाय सार्द्धानि पदानि पञ्च । सम्पादयामास तथा द्विजेभ्यः साञ्चितुर्विंशतिमुत्तमेभ्यः ॥७॥ ददौ करस्कन्धकपाटपीठं महीपतिस्तत्रभवं समस्तम् । आकाशपाताल समुद्गतं च देवद्विजेभ्यो लवरणाकरं च ॥७६।। तस्यादृष्टसहायतामुपगतो योगेश्वराङ्गोद्भवः, ख्यातः सूरिसलक्षणः क्षितिपतेः सर्वत्र विश्वासभूः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy