Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८ ॥
३९ ॥
४० ॥
अथवेदृग्रूपशाली हलाः ! कोऽप्यस्ति किं पुमान् ? । प्रतिरूपं हि यस्येदृगसरूपं जगत्यपि ॥ ३७ ॥ आख्यन् सख्यः स्वसर्देवसिंहोऽयं मेघभूपभूः । वरस्त्वदुचितः साधु विधिवेद् घटयिष्यति ॥ अत्रान्तरे प्रतीहार्या नृपस्तां चित्रपट्टिकाम् । आनाययत् सोऽप्यङ्गासीत् कुमार्या रुचितं वरम् ॥ ततो नृपः स्वसचिवान् मधुरां प्रेष्य सत्वरम् । देवसिंहकुमारायादापयत् तनयां निजाम् ॥ मेघभूभृदनुज्ञातः सत्सामग्रया समन्वितः । तत्पाणिग्रहणायागाद् देवसिंहो नृपाङ्गभूः ॥ ४१ ॥ महामहात् ताद्वाह्य कन्यां कनकसुन्दरीम् । अतिष्ठद् देवसिंहोऽथ सुखं तत्र कियदिनान् ॥ ४२ ॥ तत्रान्यदा समायासीच्चतुर्ज्ञानी महामुनिः । श्रुत्वा तदेशनां देवसिंहो धर्म प्रपन्नवान् ॥ ४३ ॥ अन्यदा नृपमापृच्छय देवसिंहः प्रियान्वितः । मथुरामागतस्तत्र जातो वर्द्धापनोत्सवः ॥ ४४ ॥ अन्यदा भूपोऽपि वा राज्यं स्वमूनवे । निष्क्रम्य सद्गुरूपान्ते तपस्तप्त्वा दिवं ययौ ॥ ४५ ॥ इतरोऽपि नयेनोव पालयन् प्रथितो गुणैः । श्राद्धधर्मे सुनिष्णातोऽपालयद् द्वादशवतीम् ॥ ४६ ॥ कालेन शुक्रकल्पेऽभूद् विमलद्युतिनिर्जरः । साऽपि तत्रैव देवत्वमगात् कनकसुन्दरी ॥ ४७ ॥ एकत्रैव विमाने च तावुभौ प्रेमनिर्भरौ । पालयामासतुः सप्तदशोदधिमितां स्थितिम् ॥ ४८ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते देवसिंहराजश्रमणोपासकचरितं तृतीयं भवग्रहणम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२६

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155