Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 121
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir DDE D 10000000000000000000000000 अद्य तु युवराजमुतश्च रत्नसारस्तमन्वगात् कापि । सविशेष दुःखानामुत्कर्षों वर्द्धते तेन ॥ ४९ ॥ तद्वज्रघाततुल्यं वचः समाकर्ण्य निर्गतो नगरात् । भ्रातरमन्वेषयितुं गिरिसुन्दरनामकस्त्वरितम् ॥ ५० ॥ ग्रामाकरनगरारण्यभूमिभृच्छृङ्गगिरिनिकुञ्जेषु । भ्रामं भ्रामं पृच्छन्नध्वन्यानगणितक्षुत्तृद ।। ५१ ॥ कुत्रापि न तद्वार्ता प्रापदसो कचिदथापि देवकुले । शृणुते पथिकालापांस्तत्रैकोऽवददहो ! शृणुत ॥५२॥ कौतुकमेकं यदहं दिदृक्षुरभियोगतो विविधदेशान् । भ्राम्यन्नुद्वसदेश प्राप्तः श्वापदशताकीर्णम् ॥ ५३॥ मिलितोऽथामरनिरुपमरूपो भूपाङ्गभूस्तदा कोऽपि। तेन समं पथि गच्छन् शून्यपुरं किमपि वीक्ष्याग्रे॥५४॥ रमणीयमिति सकौतुकमावामालोकयाव इदमखिलम् । रुचिरतरविपणिमुरहऱ्यातुङ्गवाप्रपाऽऽकीर्णम् ॥ ५५ ।। निशि निशितासिशयो शेवहे स्म तत्र प्रबुद्धमथ पूर्वम् । नृपसुतमागत्य तदा व्याघ्रःप्रोवाच नरवाचा ॥ ५६ ॥ नृपसनो ! क्षुधितोऽहं तद् देवनं नरं कुरु कृपां मे । अवदत् सोऽपि न शरणागतं विमुश्चामि मां भुक्ष्व ॥५७|| शरणागता भटानां सिंहानां केसरा उरः सत्याः। चूडामणयः फणिनां गृह्यन्ते जीवतां नैव ।। ५८ ।। इत्युक्त्यवगततन्निश्चयोऽथ नृपसुनुमालपद् व्याघ्रः । त्वत्सत्वात् तुष्टोऽस्मि प्रार्थय किमपीप्सितं भद्र ! ॥ ५९॥ कस्त्वमिति नृपभुवोक्ते देशस्यास्यास्मि नायकोऽनिमिषः। कथमुद्रसस्तदेष त्वयि सत्यपि विस्मयोऽयं मे ॥६॥ इति पृष्टोऽयं निजकं प्रकाश्य रूपं जगाद परमार्थम् । गन्धारनाम्नि नगरे रविचन्द्रो नाम नरनाथः ॥ ६१ ॥ यतः OODEODOD ॥५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155