Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000
तासां तं निश्चयं ज्ञात्वा पितरस्ते कनीनिजाः । गुणसागरसंज्ञाय महेभ्याकभुवे ददुः ॥ २४ ॥ वातायनगतोऽन्येार्ददर्श गुणसागरः । मृर्त्त धर्ममिव प्राप्तशमं वाचयमं जवात् ॥ २५ ॥ काप्यपश्यमिदं रूपमित्यूहापोहसङ्गतः । प्राग् जन्म निजमस्मार्षीत् श्रामण्यं च पुराकृतम् ॥ २६ ॥ ततो विशिष्टसवेगरङ्गसङ्गतमानसः । पितरो स्माह न स्थातुं क्षमेऽहं भवचारके ॥ २७ ॥ तत् प्रसद्य व्रतादानानुमति मे प्रयच्छतम् । पाहतुस्तौ वत्स! किं ते सांप्रतं यौवने व्रतम् ॥ २८ ॥ अथ चेद् वत्स निर्बन्धो व्रते ते न निवर्तते । तदोद्वाह्य प्रियाः पश्चात् कुर्यास्तूर्ण स्वमीप्सितम् ॥ २९ ॥ प्रतिपद्य वचः पित्रोः कुमारो गुणसागरः । महामहेन ता अष्टावपि कन्या व्यवाहयत् ॥ ३०॥ पाणीन् गृहीत्वा कन्यानामसौ मातृगृहे स्थितः । प्रावर्त्तत पुरस्तत्र नाटकं चित्रकृत् तदा ॥ ३१ ॥ गुणसागरस्तु नासास्तिमिताक्षः संयतेन्द्रियग्रामः । दध्यावेकाग्रमना मुनिर्भविष्याम्यहं प्रातः ।। ३२ ॥ एवं तपः करिष्ये तथा विधास्यामि गुरुजने विनयम् । व्रतयोगेषु यतिष्ये स्थास्यामि ध्याननियमेषु ॥३३॥ एवं निभृतं ध्यायन् स्मरन् श्रुतं पूर्वजन्मनाभ्यस्तम् । प्रतिपद्य भावसंयममभङ्गसंवेगरससिक्तः ॥३४॥ उदितोदितविशदतराध्यवसायवशोऽनुसमयमेष मुनिः। निर्दग्धघातिकर्मा केवलममलं क्षणादापत् ॥३५॥ प्रणयिन्योऽपि नवास्ता अस्ताखिलकर्मधर्मसन्तापाः। प्रतिपन्नभावचरणा इह केवलसंविदमविन्दन् ॥३६॥
0000000000000000000
॥७२॥
For Private and Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155