Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 153
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तिलेषु कृष्णानि तुषे तृणानि यथैव सङ्ख्यातुमलं न कोऽपि । तथा मदुक्तिष्वपि दूपणालीं सा चिन्तनीया न परं सुधीभिः ॥ ८ ॥ किं वाऽथ तत्प्रार्थनयानया मे सन्तो गुणेष्वेव कृतादरा यतः । मुदा सदा मोदते मनोरमे सुमे रमेरन्ननु षट्पदालयः ॥ ९ ॥ पट्चत्वारिंशदग्रयाण्यष्टादशैव शतानि च । सर्वाग्रं लोकमानेन प्रमाणमिह निश्चितम् || १० ॥ इति ग्रन्थकर्त्तुः प्रशस्तिः । सं० १५३५ वर्षे माघे सितदशम्यां गुरौं अग्रेह श्रीअहम्मदावादनगरे श्रीपूर्णिमापक्षविभूषण - श्रीगुणसागरसूरि पट्टालङ्कार - श्री पूज्यश्रीगुणसमुद्रसूरयस्तत्पट्टोदय गिरिमिहिरकरणयः श्रीपुण्यरत्नसू रिवराः संप्रति विजयन्ते । तेषां विनेयवर्येण सत्यराजगणिना लिखितमिदम् । चिरं चतुरकोटीरैर्वाच्यमानं जयत्विदम् । सच्चरित्रं विमुग्धानामवबोधविधायकम् ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ॥७४

Loading...

Page Navigation
1 ... 151 152 153 154 155