Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 150
________________ Shri Mahavir Jain Aradhana Kendra थ्वी चन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्केवलमहिमानं कर्त्तुमथाजग्मुरनिमिषाधीशाः । नेदुर्दिवि दुन्दुभयो भेजुर्भव्या मुदममन्दाम् || ३७ || तद्वीक्ष्य रत्नसञ्चयसुमङ्गले अपि तथा सुतवधूनाम् । केवलविभवं ते अपि मुहुर्मुहुस्तदनुमोदनया ॥ ३८ ॥ सञ्जातकर्म लाघववशेन सुविशुद्धसंयमरसेन । प्रक्षालितकर्ममले लेभाते केवलमनन्तम् ॥ ३९ ॥ ( युग्मम् ) इत्येतत् तत्र नृपते ! विज्ञप्तं सांप्रतं महाश्चर्यम् । भूवल्लभोऽपि तदिदं निशम्य सम्यग् विभावयति ॥ ४० ॥ गुणसागरः स सत्यं गुणसागर एव येन निजकार्यम् । संसाधितं क्षणेन क्षयेण दुष्कर्मजालस्य ॥ ४१ ॥ जानन्नप्येष कथं पतितो राज्याख्यकूटयन्त्रेऽस्मिन् । गुरुजनदाक्षिण्यवशादुदा स्तिमानात्मकार्येऽपि ॥ ४२ ॥ तदहं कदा प्रपत्स्ये भवमथनीं भगवतीं महादीक्षाम् । समशत्रु मित्रवृत्तिः कदा चरिष्याम्यनिर्बन्धः || ४३ ॥ इति भावनावशात्मा क्षिप्त्वा क्षणतोऽप्यशेषकर्माणि । पृथ्वीचन्द्रमहीन्द्रः प्रपेदिवान् केवलज्ञानम् ॥ ४४ ॥ श्रुत्वैतत् तच्चरितं षोडश वीपतेः प्रिया अपि ताः । संवेगरङ्गसङ्गतमनसोऽवापुः परं ज्ञानम् ॥ ४५ ॥ हरिसिंहोऽपि महीभृत् पद्मावत्या समन्त्रितोऽपि तदा । केवलिवचसा कृतकर्मनिर्जयः केवलमवापत् ||४६ ॥ अथ सुधनसार्थवाहो व्यजिज्ञपत् तं तदा महर्षीन्द्रम् । पृथ्वीचन्द्रं भगवंस्तव गुणसागरमहर्षेश्व ॥ ४७ ॥ सोदरयोरिव साम्यं साम्यनिधे ! दृश्यते कथमिहेदृक् ? | केवल्य जल्पद्भवं कुसुमायुध इत्यहं पूर्वम् ॥ ४८ ॥ ( युग्मम . ) आसीद् गुणमणिसिन्धुर्बन्धुर्मे कुसुमकेतुरिति नाम्ना । स च गुणसागर इत्ययमभूद् यथार्थाभिधस्तत्र ॥ ४९ ॥ For Private and Personal Use Only चरितम् ।

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155