Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वीचन्द्र
चरितम् ॥
S60650EOलकहर
ततोऽपि यानमारुह्य चीनद्वीपं प्रतस्थतुः । भूरिभाण्डान्यथादाय चलितौ निजमण्डलम् ॥ ९१॥ तीर्णप्राये पयोराशौ सुमित्रो दध्यिवानिति । गुणन्धरणामुनाहं महामि पयसां निधिम् ॥ ९२ ॥ भवामि सर्वविभवविभुरित्युत्थितो निशि । तनुचिन्ताकृते यानपर्यन्तस्थायिनं च तम् ॥ १३ ॥ निरीक्ष्याब्धौ क्षिपेद् यावद् तावत् स्वकर्मदोषतः। स एव पतितोऽभोधौ ही पापानां कुतःसुखम् ॥१४॥ तं तथावस्थमालोक्य विललाप गुणन्धरः। हा हा मम वयस्यस्य किमकाण्डेऽप्यदोऽभवत् ॥ ९५ ॥ शोचन्ने क्रमेणागात् ताम्रलिप्त्यां गुणन्धरः । ज्ञानवांस्तत्र धर्मर्षिस्तमेवं प्रत्यबुबुधत् ॥ ९६ ॥ यत्कृते तप्यसे वत्स ! तस्य त्वं शृणु चेष्टितम् । मुप्तो मुक्तो बने येन कुमित्रेण धनेच्छया ॥ ९७ ॥ यनाब्धौ क्षेप्तुमिष्टस्त्वं तत्रापतत् स एव तु । आपत्सु पान्ति पुण्यानि प्राग्भवोपार्जितान्यहो ! ॥९८॥ जिनप्रिये मोहनस्य मात्सर्य यत् पुराप्यभूत् । तदभ्यासात् सुमित्रस्य द्वेष आसीद् गुणन्धरे ॥ ९९ ॥ कृतानतिरथापृच्छन्मुनिचन्द्रं गुणन्धरः। प्रभो ! सोऽब्धौ तदा मृत्वा सुमित्रः कोदपद्यत ? ॥ १०॥ भगवानाह साकेत पुरे विप्रसुतोऽभवत् । जात्यन्धः केशवो नाम स संप्रत्यस्ति दुःखभाक ॥ १०१॥ गुणन्धरो भवोद्विग्नो मुनेस्तस्य पदान्तिके । श्रामण्यं प्राप्प चाधीत्य जातोऽनूचानपुङ्गवः ॥ १०२ ॥ सोऽहं युष्मत्मबोधाय विहरविह चागमम् । आख्यातमेतदाख्यानं केशवस्य द्विजन्मनः ॥ १०३ ॥
DOE 5000000000000000000008
For Private and Personal Use Only

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155