Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ऊचे नृपः कुमारोऽयमेकस्तत् कुत्र यात्वयम् । त्रयोऽप्यलध्या यदमी एकत्र प्रेष्यते यदि ॥ ६३ ॥ द्वयोर्हला भवेत् तद्धि बुद्धिमान् मन्त्र्यथालपत् । कुमारस्तिष्ठतादत्रायास्यन्त्येताः स्वयंवराः ॥ ६४ ॥ ( युग्मम्.) सर्वेषां प्रियमेवैतदिति भूपः प्रपेदिवान् । प्राप्ताः स्वयंवरास्तास्ता उपायंस्तावनीशसूः ॥ ६५ ॥ रममाणः समं ताभिर्दोगुन्तक इवामरः । विचक्षणः क्षणमिव कुमारोऽगमयत् समाः ॥ ६६ ॥ पुरन्दरादिश्रमणपञ्चशत्या समन्वितः । अत्रान्तरे समागच्छदुद्याने सुन्दरो मुनिः ॥ ६७ ॥ कुसुमायुधभूपस्तं नत्वा शुश्राव देशनाम् । प्रबुद्धः माह कुसुमकेतुं नाम्ना निजं सुतम् ॥ ६८ ॥ वत्स ! स्वच्छ, समादत्स्व राज्यभारं समाहितः । श्रीसुन्दरगुरूपान्ते येनाहं स्यां व्रतोद्यतः ॥ ६९ ॥ आख्यत् कुसुमकेतुस्त्वामन्तरेण पितः ! क्षणम् । न स्थातुमीशे तदहं त्वयादास्य सह व्रतम् ॥ ७० ॥ तन्निर्बन्धं ततोऽवेत्य सञ्जातव्रतनिश्चयम् । देवसेनकुमारं द्रागभिषिच्य निजे पदे ॥ ७१ ॥ कुसुमकेतुप्रमुखंर्नरपञ्चशतैः समम् 1 प्रावाजीदस्त कुसुमायुधः स कुसुमायुधः ॥ ७२ ॥ ( युग्मम्- ) अन्यदा गुरुवाक्येन प्रपन्नः कुसुमायुधः । सभ्ववाने एकाकिविहारप्रतिमां मुनिः ॥ ७३ ॥ ग्रामे कापि शून्यगेहे स कायोत्सर्गमग्रहीत् । प्रदीपनाशिना दह्यमानोऽपि स्थिरमानसः ॥ ७४ ॥ न चचाल शुभध्यानान्मनागपि महामुनिः । समाधिमृत्युना मृत्वा सर्वार्थे त्रिदशोऽभवत् ॥ ७५ ॥ For Private and Personal Use Only 99363396 ॥७०॥

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155