Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
300000000000seeoooooooooor
ससैन्यो जयभूपोऽथ जगाम शिववर्द्धनम् । मिलितः स प्रमोदेन तत्र पुत्रकलत्रयोः ॥ ३७॥ तत्रैव प्रियमत्याश्च जनको जनकोटिभिः । मानतुङ्गनृपोऽप्येतस्तवृत्तं ज्ञापितोऽखिलम् ॥ ३८ ॥ राजशेखरभूपोऽपि श्रुत्वा व्यतिकरं च तम् । विलक्षः क्षामणाहेतोर्जयराजमुपस्थितः ॥ ३९ ॥ अज्ञातवृत्तेन मया त्वत्सुतोपरि यत्कृतः । मुधा समरसंरंभस्तभूषामर्षवर्जितः ॥ ४०॥ एवं सर्वेऽपि संभूय मैत्रीभावं मिथोऽश्रयन् । चक्रः शक्रसमा भूत्या भपास्तत्र महामहम् ॥ ४१॥ बहूनां भूपतीनां यत् तत्राभूत् सङ्गमः पुरे । तेन तन्नगरं ख्यातं राजसङ्गमनामतः ।। ४२ ॥ राजशेखरभूपोऽथ कन्या द्वात्रिंशतं निजाः । कुसुमायुधभूपाय प्रददौ मुददौस्थ्यतः ॥ ४३ ॥ अन्यदा समवासापत् तत्पुरोधानसीमनि । बहुशिष्यपरीवारो गुणसागरकेवली ॥ ४४ ॥ जयादयो नृपाः सर्वे तं वन्दितुमथागमन् । शुश्रुवुः प्रयतास्तस्य देशनां क्लेशनाशिनीम् ॥ ४५ ॥ प्रबुद्धा बुद्धिमन्तोऽमी सर्वेऽपि वसुधाधवाः । दत्त्वा राज्यानि कुसुमायुधाय परिवव्रजुः ॥ ४६ ॥ कुसुमायुधभूजानिर्भुव एकातपत्रताम् । कुर्वाणोऽईच्छासनस्य परामुन्नतिमानयत् ॥ ४७ ॥ अथ तस्यावनीभर्तृ राजशेखरराट्सुता । स्फुरद्गुणावली पट्टराझ्यभूत कुसुमावली ॥ ४८ ॥ जयसुन्दरदेवोऽस्याः कुक्षौ सरसि हंसवत् । अवातरच्छिखिस्वप्नसूचितो निचितो गुणैः ॥ ४९ ॥
TTTTTTTTTTTTTTTT
॥६९॥
For Private and Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155