Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
लचरितम्।
രമായ
निःशेषलक्षणोपेततनुः स तनुभूरभूत् । पिता कुसुमकेत्वाख्यां प्रादात् तस्मै मुदान्वितः ॥५०॥ वर्द्धमानः क्रमात् काममामनत् सकलाः कलाः । प्रस्फुरद्गुरुलावण्यं स तारुण्यं वयोऽश्रयत् ॥ ५१॥ नृपोऽथ मथुराधीशो महाकीर्तिर्महाद्युतिः । महामात्येन कुसुमायुधभूपं व्यजिज्ञपत् ॥ ५२॥ देवास्माकं सुता इष्टाः शिष्टा अष्टावनिष्ठुराः । परापराम्बाप्रभवा लसद्धीविभवाश्च ताः ॥ ५३॥ एता उदग्रवदग्ध्यमुग्धाः स्निग्धा मिथोऽवहम् । न कोऽपि वशमानेतुं क्षमते भूपभूः परम् ॥ ५४॥ श्रुत्वा कुसुमकेतोश्चात्यद्भुतं गुणवैभवम् । तद्ध्यानार्थकतानास्ताः स्तुवतेऽमुं मुहुर्मुहुः ॥ ५५ ॥ तत् सर्वथापि कुसुमकेतुं संप्रेष्य सत्वरम् । मनसो निवृतिस्तासां कर्त्तव्यैव किमुच्यते ॥ ५६ ॥ यावद् दत्ते भुवो भर्त्ता तस्मै प्रतिवचः प्रियम् । जयतुङ्गनृपस्तावत् तं दूतेन व्यजिज्ञपत् ॥ ५७ ॥ राजन्नाजन्मसंसिद्धस्फुरद्गुरुगुणवजाः । षोडशोदिततारुण्याः कन्या नः सन्ति संप्रति ॥ ५८॥ उक्तो नैमित्तिकेनासां द्विष्टानामपीष्टदः । गुणैरनूनस्त्वत्यूनुर्वरो विपुलवैभवः ॥ ५९॥ तत्पाणिग्रहणायासां कन्यानां प्रहिणु प्रभो !। सुतं कुसुमकेतुं स्वं परिवारयुतं जवात् ॥ ६ ॥ अत्रान्तरे च साकेतपतिमन्त्री नृपं जगौ । दिक्कन्या इव नः सन्ति सुता अष्टौ गुणैर्युताः ॥११॥ तासां वरकृते तत् त्वां देव ! विज्ञापयाम्यहम् । सुतः कुसुमकेतुस्तद्विवाहाय प्रहीयताम् ॥ ६२ ॥
GGGGGGGGGGGGGGIOCOCCCOCCO
For Private and Personal Use Only

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155