Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीचन्द्र
चरितम् ॥
00000000000000000000000
प्रामूत तत्र पुत्रं सा पितृगेह इव स्थिता । धनञ्जयो जयोत्कर्षावहं जन्ममहं व्यधात् ॥ २४ ॥ कुसुमायुधनाम्नाऽसौ रूपेण कुसुमायुधः । क्रमात् त्रिवर्षदेशीयः सातस्तद्गृहे शिशुः ॥ २५ ॥ इतो वासवदत्ताख्यं सार्थवाहं ततः पुरात् । चंपापुरी जिगमिघु श्रेष्ठयाचष्ट धनञ्जयः ॥२६॥ भ्रातः ! पुत्रीमिमां तन्मे चंपां संपादय द्रुतम् । प्रतिपन्ने च तेनासौ चलिता स्वपुरी प्रति ॥ २७ ॥ अथान्तरा समायाते नगरे शिववर्द्धने । सबालापि रसालाधः सा बाला यावदस्वपत् ॥ २८ ॥ इतस्तन्नगरस्वामी सुन्दरः सोदरान्वितः । विहाय हयहस्त्यादि प्राभवं प्राव्रजत् स्वयम् ॥ २९ ॥ ऋते राज्योचितं पुत्रं पञ्च दिव्यानि मन्त्रिभिः । अभिषिक्तानि ते राज्येऽभिषिक्तः कुसुमायुधः ॥३०॥ सार्थवाहस्तच्चरित्रं मन्त्रिणां पुरतोऽवदत् । नृपमातृष्वसुः पुत्रं तेऽप्यवेत्य प्रमोदतः ॥ ३१॥ महामहेन तं बालं महीपालं व्यरीरचन् । समन्तात् सर्वसामन्ताः प्रणेमुस्तं कृतादराः ॥ ३२ ॥ इतोऽवन्तीपुरस्वामी नृपती राजशेखरः । श्रुत्वाऽऽगात् तत्र त बालं भूपालं स्वबलान्वितः ॥ ३३ ॥ जिघृक्षुस्तस्य तद्राज्यं तत्पुरं पयवेष्टयत् । लुब्धात्मानो न यद्वर्णमवर्ण गणयन्त्यमी ॥ ३४ ॥ अथ वासवदत्ताख्यः साथवाहः कियद्दिनः । गतश्चंपापुरीं तत्र जयनाम्नो महीपतेः ॥ ३५ ॥ प्रियमत्याश्च कुसुमायुधस्य नवभूभुजः । वृतान्तमाख्यदखिलं विस्मयात् तं नृपोऽशृणोत् ॥ ३६॥ (युग्मम्.)
seeD0000000000000000000
महामहेन तान्त्रणांपुरती जात्रभिः ।
For Private and Personal Use Only

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155