Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000
तथा विश्वस्तमुप्तोऽसावितश्च स गुणन्धरः । प्रबोध्य पल्लीपतिनाऽपृच्छयत प्रथितां कथाम् ॥ ७८ ॥ यथास्थितमथाचख्यौ वृत्तं पल्लीपतेः पुरः । सुमित्रस्तत्र सर्वत्र शोधितस्तेन यत्नतः ॥ ७९ ॥ तमपश्यन् दधद् दुःखं पल्लीशस्तमबुबुधत् । चक्रे चातुच्छवात्सल्यं तस्य स्थानाशनादिभिः॥ ८०॥ एवं तत्रेष्टगोष्ठीभिर्नीताः कत्यपि वासराः । सहस्रवेधिपल्लीशस्तस्मै चादान्महारसम् ॥ ८१ ॥ अवदत् स च तं तारत्रपुताम्रायसामपि । अक्लेशेनास्य लेशेन जायते हेमता क्षणात् ॥ ८२॥ अन्यदापृच्छय पल्लीशं रसालाबुसमन्वितः। तत्साहाय्याद् ययौ वीरपुरं वीरशिरोमणिः ॥ ८३ ॥ तत्रासौ सार्थमार्गावलोकनव्याप्तो निशि । तिष्ठतीष्टवियोगात्तों यावत् तावदथान्यदा ॥ ८४ ॥ क्षुत्तषातः सुमित्रोऽस्य दुर्दशो दर्शनं गतः । गुणन्धरस्य स शठः कण्ठमाश्लिष्य चारुदत् ।। ८५॥ (युग्मम्.) आश्वास्य पृष्टो वृत्तान्तमवदत् सोऽपि तत्पुरः । तवागता तदा निद्रा भिल्लघाटी तदोत्थिता ॥ ८६ ॥ बद्धो भिल्लैरहं नष्टोऽवसरं प्राप्य कहिचित् । अन्वेषयंस्त्वामत्रागां दिष्टयाऽद्य मिलितोऽसि यत् ॥ ८७ ॥ रसलामावधि स्वीयं वृत्तमाख्यद् गुणन्धरः । तस्मै स रसमादित्सुः शठः स्फुटमदोऽवदत् ॥ ८८॥ रसस्यालाबु कुत्रापि वयस्य ! न्यस्य निश्चितम् । आव देशान्तरं कुर्वो द्रष्टुं विविधकौतुकम् ॥ ८९ ॥ इति निश्चित्य तौ पण्यान्यादाय विविधान्युभौ । ताम्रलिप्ती गतौ तत्र भूयाल्लाभोऽभवत् तयोः ॥ ९० ॥
0
GGOOO60366GG5036393533003
॥६॥
DOGE
For Private and Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155