Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 136
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चन्द्र चरितम्॥ 30000000000000000000000000 जिनप्रियसुरोऽप्येष तस्मिन्नेत्र पुरोत्तमे । विनयन्धरसंज्ञस्य महेभ्यस्य सुतोऽभवत् ॥६५॥ गुणन्धराभिधः सोऽपि क्रमात् संपाप यौवनम् । प्राग्भवाभ्यासतः प्रेम सुमित्रे तस्य चाभवत् ॥६६॥ पञ्चत्वं प्राप्तयोः पित्रोरन्यदा स गुणन्धरः । क्षीणवित्तः क्रमेणायमभूत् परिभवास्पदम् ॥ ६७ ॥ गुणन्धरोऽन्यदा मित्रमूचे रुचिरया गिरा । गत्वा देशान्तरं कुवों यदावां द्रविणार्जनम् ॥ ६८॥ शाठ्यवृत्त्या सुमित्रोऽपि प्रत्यपद्यत तद्वचः । चलितो पण्यमादाय परदेशं धनैषिणौ ।। ६९॥ उल्लद्ध्यानेकविषयान् पापतुस्तौ महाटवीम्। साथै आवासिते तौ च प्रेमतुः कौतुकाद् वनम् ॥ ७० ॥ उदुंबरस्य च्छायायां शयितौ पल्लवासने । गुणन्धरस्य निद्राऽऽगादितरस्तु पलायितः ॥ ७१ ।। आत्तो गुणन्धरो भिल्लैः स च सार्थपुरो वदन् । पलायत जना इत्युच्चरन् सार्थमचालयत् ।। ७२ ।। स्वयं तद्विभवस्वामी जातश्छलविधानतः। आलोकितोऽस्म्यहं स्निग्धदृशा संप्रति वेधसा ॥ ७३ ।। इति सश्चिन्तयन्नेष यावदास्ते मुदास्पदम् । तावद् दावशिखी मध्यन्दिने व्यापनभःस्तलम् ॥ ७४ ।। दग्धानि सर्वभाण्डानि नष्टाः सर्वे दिशो दिशि । जीवमादाय नष्टस्वः स पलायिष्ट दुष्टहृत् ॥ ७ ॥ क्षुत्तृट्पीडातपक्लान्तः सुमित्रोऽथ गिरेस्तटम् । प्रयातस्तत्र शबरैर्बद्ध आर्मेण चर्मणा ॥ ७६ ॥ त्रिरात्रादथ मुक्तस्तैर्भिक्षावृत्याभ्रमद् भुवम् । पापानां कर्मणां यस्माद् भवेदेवंविधा गतिः ।। ७७ ।। रस्तु पलागि { । आलोचित जना For Private and Personal Use Only

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155