Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 134
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरितम् ॥ SODGCARRESERIODES मुनिघातपातकेन स्पृष्टोऽस्मि मनाए न चेति निध्यायन्। मुनिपादपङ्कजेषु न्यपतद् विनयावनतकायः॥ ३९ ॥ क्षमयामास मुनिवरं पापेन मया कृतोऽयमपराधः । तन्मे प्रसीद यद्भवदके क्षिप्तं मयास्ति शिरः ॥ ४० ॥ इति चाटुपरो भूपो ध्यानं संपूर्य साधुना भणितः। माभैभूवल्लभ ! यत् सरोषतोषा न खलु मुनयः ॥ ४१ ॥ नवरं शृणु मद्वचनं करिकर्णचलेषु भोगयोगेषु । पापारंभेषु रतिं कर्तुं क्षणमपि न ते युक्तम् ॥ ४२ ॥ इति मुनिवचसा बुद्धो लब्ध्वा बोधि दधौ स गृहिधर्मम् । वीराङ्गदभूमिधवः स्वमनो निर्माय निर्मायम् ॥ ४३ ॥ तत्र जिनप्रियनामा श्राद्धो नृपतेः ससर्ज साहाय्यम् । जिनपूजादिषु तेनामन्यत तं गुरुधिया भूपः ॥ ४४ ॥ अस्ति च तत्रैव पुरे मोहननामा च नामभृच्छ्राद्धः । श्रावककुलानुजीवी जिनपियस्तेन भणितोऽथ ॥ ४५ ॥ दर्शय मे तं नृपति यत्तनिश्रास्थितोऽस्मि निश्चिन्तः। तेनापि तथा विहिते राज्ञा पूजादिषु नियुक्तः ॥ ४६॥ नृपसंमत इति जातः शेषजनस्यापि गौरवस्थानम् । यत् स्वीकृतो महद्भिर्महीतले को न महनीयः ॥ ४७ ॥ राज्याईमन्यदा वीरसेनमाजमनुस्मरन् भूपः । निर्विण्णकामभोगो विरचितवरचरणपरिणामः ॥ ४८ ॥ नपेण मोहनः प्रोक्तो धर्माचार्य गवेषय । येन तच्चरणोपान्ते अपये संयम मुदा ॥ ४९ ॥ निदध्यौ मोहनोऽप्येवं ममैनं भूपति विना । न सुखाजीविका तेन शठोत्तरमदोऽवदत् ॥ ५० ॥ देव ! संपति कोऽप्यत्र दृश्यते न तथाविधः । गुरुयं पोतवत् श्रित्वा तीर्यते भवसागरः ॥५१॥ 10000000000000000000000000 तं यत्तनिवास्थिौरवस्थानम् । यतकामभोगो विरा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155