Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand

View full book text
Previous | Next

Page 132
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हवीचन्द्र चरितम्। DOCCOCOCCCCCCGG6GOCT000000 अथान्यदा नृपो देशदर्शनालोककौतुकी । चतुरङ्गचमूयुक्तो बभ्राम महिमण्डलम् ॥ २३॥ ग्रामाकरपुरादीनि भ्रमन्नृपशतानतः । साकेतनगरं प्रापत् क्रमेण स्वःपुरोपमम् ॥ २४ ॥ तत्रोद्याने जिनगृहे नत्वा श्रीवृषभप्रभुम् । निर्गतो द्रुतलासीनं स मुमुक्षुमवन्दत ॥ २५ ॥ विधाय देशनां तत्र विरते मुनिपुङ्गवे । ततः कपिञ्जलो नाम पुरोधा अभ्यधात् क्रुधा ॥ २६ ॥ बुधैर्विधीयते धर्म इति शर्मनिबन्धनम् । तदेतच्चण्डपाखण्डमुण्डतुण्डैकताण्डवम् ॥ २७ ॥ तथाहि-सर्वमेव भवेज्जीवसद्भावे स च नास्ति यत् । प्रत्यक्षादिप्रमाणेश्चाग्राह्यत्वेन तथा ह्ययम् ॥ २८॥ स्तंभकुंभांभोरुहादिवच्चक्षुा न हीक्ष्यते । श्रवसा वेणुपणवकणवच्छ्रयते च न ॥ २९ ॥ घ्राणेन गृह्यते नापि गन्धधुल्यादिगन्धवत् । मधुराम्लादिरसवल्लिह्यते न च लोलया ॥ ३०॥ न परिस्पृश्यते शीतोष्णादिस्पर्शवदन्वहम् । तस्माज्जीवो नास्त्येवाक्षपश्चकागोचरत्वतः ॥ ३१॥ नास्ति जीवः किन्तु पश्चभूतपरिणाम एव नरतिर्यक्शरीराणां व्यवहार इति तदुक्ते गुरवोऽवीचन्, भो भद्र ! तव जीवाभावसाधकमेतद्विज्ञानं विद्यमानमविद्यमानं वा ? न तावद् विद्यमानममूर्तत्वेन, करणपञ्चकाग्राह्यत्वात् । अविद्यमाने च तस्मिन् जीवः सिद्ध एव प्रतिषेधकाभावात् । अन्यच्च बधिरान्धादिभिरनुपलभ्यमाना अपि सन्ति रूपादिपदार्थाः तदन्येषामुपलंभाच्च एवं छद्मस्थापत्यशोऽपि ज्ञानातिशयसंपन्नपरममुनिप्रत्यक्षोऽस्त्येव जीवः । 900CCC0000000000000OO0IOSO For Private and Personal Use Only

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155