Book Title: Pruthvichandra Charitram
Author(s): Satyaraj Gani, Mangalvijay
Publisher: Chandulal Punamchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
00000000000000000000000
अथान्यदांवरे श्रुत्वा वर्यतूर्यमहारवम् । यावद् विस्मितचित्तोऽभूत् सदःस्थो भूमिवासवः ॥ १० ॥ आगातां नभसस्तावत् सभायां खेचरावुभौ । पोचतुस्तौ नृपं नत्वा देव ! वैताट्यपर्वते ॥ ११ ॥ सुरवेगः सूरवेगश्चापरापरमातृजौ । बन्धू पालयतः श्रेणियखेचरवैभवम् ॥१२॥(विशेषकम.) शतं शतं च कन्यानामभवत्तु तयोर्द्वयोः । अन्यदा वत्सुतौ ताभ्यां राधावेधे निरीक्षितौ ॥ १३ ॥ तत्कलाकौशलपीतौ पुष्पवृष्टिं वितेनतुः । तौ चैतद्गुणमाहात्म्यं स्वपर्षदि शशंसतुः ॥ १४ ॥ तद्गुणश्रवणात कन्यास्ताः सर्वा अपि चैतयोः । कुमारयोरुपयुच्चेवेचन्धरागमुत्कटम् ॥१५॥ अथ तैः खेचरैः सः कन्याभिश्वान्वितौ च तौ। समायातां विवाहाय पागावां प्रहितौ ततः ॥ १६ ॥ ततः प्रमुदितो भूपोऽभिगम्य खेचरेश्वरौ । स्थानाशनायैः सत्कृत्य तद्विवाहमवीवृतत् ॥ १७ ॥ सुरवेगोत्र कनकध्वजायादात सुताशतम् । सूरवेगोऽपि च जयसुन्दराय शतं. सुताः ॥ १८ ॥ अन्या अपि नृपकन्या बह्वीस्तौ परिणिन्यतुः । प्रत्येकमेतयोर्जाता वधूपञ्चशती ततः ॥ १९ ॥ अथान्यदा शुभे घने सुमङ्गलधराधवः । निवेश्य राज्ये कनकध्वज ज्यायांसमाजम् ॥ २०॥ प्रवबाज स्वयं धर्मसागराचार्यसबिधौ । आराधयत् सुचरणविधि सन्चैकसेवधिः ॥ २१॥ कनकध्वजभूजानिः कुमारी जयसुन्दरः । उभावङ्गीकृतागारिधर्मों पालयतो महीम ॥२२॥
DOL9000000000000000RECORE
For Private and Personal Use Only

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155